तस्या वाप्याश्चतुर्दिक्षु पूजितानि दहंत्यघम्
हरस्य वृषभेणैव स्थापितं तत्स्वभक्तितः 4.2.66.
वृषेश्वरादुदीच्यां तु गंधर्वेश्वरसंज्ञितम्
गंधर्वेश्वरमभ्यर्च्य दत्त्वा दानानि शक्तितः
कर्कोटनामा नागोस्ति गन्धर्वेश्वरपूर्वतः
तस्यां वाप्यां नरः स्नात्वा कर्कोटेशं समर्च्य च
कर्कोट नागो यैर्दृष्टस्तद्वाप्यां विहितोदकैः
कर्कोटेशात्प्रतीच्यां तु धुंधुमारीश्वराभिधम्
पुरूरवेश्वरं लिंगं तदुदीच्यां व्यवस्थितम्
दिग्गजेनार्चितं लिंगं सुप्रतीकेन तत्पुरः
सरश्च सुप्रतीकाख्यं तत्पुरो भासते महत्
तत्रास्त्येका महागौरी नाम्ना विजयभैरवी 4.2.66.
वरणायास्तटे रम्ये गणौ हुंडनमुंडनौ
तौ द्रष्टव्यौ प्रयत्नेन क्षेत्रनिर्विघ्न हेतवे
स्कंद उवाच इल्वलारे कथामेकां शृणुष्वावहितो भव
एकदाद्रींद्रमालोक्य मेना संहृष्टमानसम्
विवाहसमयादूर्ध्वं तस्या गौर्या गिरीश्वर
स वृषेंद्रगतिर्देवो भस्मोरग विभूषणः
अष्टौ या मातरो दृष्टा ब्राह्मी प्रभृतयः प्रिय
तस्यैकस्य न कोप्यन्योस्त्यद्वितीयस्य शूलिनः
तस्याः प्रियाया वाक्येन तदपत्यप्रियो गिरिः
नितरां बाधते प्रेम तददृष्ट्यग्निदूषितम् ।।4.2.66.
यदा प्रभृति सा गौरी निर्गता मम सद्मतः
तदालापामृतधयौ न मे शब्दग्रहौ प्रिये
जैवातृकी यतोह्नः स्याद्दूरीभूता दृशोर्मम
इत्युक्त्वादाय रत्नानि वासांसि विविधानि च
अगस्त्य उवाच कानि कानि च रत्नानि कियंत्यपि च षण्मुख
तुला मुक्ताफलानां तु कोटिद्वय परीमिताः
नवलक्षाधिकं विप्र षडस्राणां सुतेजसाम्
कोटयः पद्मरागाणां पंचावैहि तुला मुने