अतो मच्चरणाभ्याशे त्वं निवत्स्यसि सर्वथा
जैगीषव्येश्वरं नाम लिंगं काश्यां सुदुर्लभम् 4.2.63.
जैगीषव्यगुहां प्राप्य योगाभ्यसनतत्परः
तव लिंगमिदं भक्तैः पूजनीयं प्रयत्नतः
अत्र ज्येष्ठेश्वरक्षेत्रे त्वल्लिंगं सर्वसिद्धिदम्
अस्मिञ्ज्येष्ठेश्वरक्षेत्रे संभोज्य शिवयोगिनः
जैगीषव्येश्वरं लिंगं गोपनीयं प्रयत्नतः
करिष्याम्यत्र सांनिध्यमस्मिँल्लिंगे तपोधन
ददे शृणु महाभाग जैगीषव्यापरं वरम्
महापापौघशमनं महापुण्यप्रवर्धनम्
इति दत्त्वा वरं तस्मै स्मरारिः स्मेरलोचनः 4.2.63.
निष्पापो जायते मर्त्यो नोपसर्गैः प्रबाध्यते
तानि ते कथयिष्यामि शृणु वातापितापन
ज्येष्ठेशाद्दक्षिणे भागे लिंगमप्सरसां शुभम्
तत्कूपजलसुस्नातो विलोक्याप्सरसेश्वरम्
तत्रैव कुक्कुटेशाख्यं लिंगं वापीसमीपगम्
पितामहेश्वरं लिंगं ज्येष्ठवापीतटे शुभम्
पितामहेशान्नैर्ऋत्यां पूजनीयं प्रयत्नतः
दिशि पुण्यजनाख्यायां लिंगाज्ज्येष्ठेश्वरान्मुने
तत्र वासुकिकुंडे च स्नानदानादिकाः क्रियाः
यः स्नातो नागपंचम्यां कुंडे वासुकिसंज्ञिते
कर्तव्या नागपञ्चम्यां यात्रा वर्षासु तत्र वै 4.2.66.
तत्कुण्डात्पश्चिमे भागे लिंगं वै तक्षकेश्वरम्
मुनेस्तस्योत्तरे भागे कुण्डं तक्षकसंज्ञितम्
तत्कुण्डादुत्तरे भागे क्षेत्रं क्षेमकरः सदा
भैरवस्य महाक्षेत्रं तद्वै साधकसिद्धिदम्
तत्र चण्डी महामुण्डा भक्तविघ्नोपशांतिदा। बलिपूजोपहाराद्यैः पूज्या स्वाभीष्टसिद्धये
तस्या यात्रां तु यः कुर्यान्महाष्टम्यां नरोत्तमः
महामुण्डा प्रतीच्यां तु चतुःसागरवापिका
महाप्रसिद्धं तत्स्थानं चतुःसागरसंज्ञितम्