उमाकांताय उग्राय नमस्ते ऊर्ध्वरेतसे
अनंतकारिणे तुभ्यमंबिकापतये नमः 4.2.63.
दृश्यादृश्य यदत्रास्ति तत्सर्वं त्वमु माधव
वाच्यस्त्वं वाचकस्त्वं हि वाक्च त्वं प्रणतोस्मि ते
नान्यं नमामि गौरीश नान्याख्यामाददे शिव
पंगुरन्याभिगमनेऽस्म्यंधोऽन्यपरिवीक्षणे
पाता हर्ता त्वमेवैको नानात्वं मूढकल्पना
संसारसागरे मग्नं मामुद्धर महेश्वर
वाचंयमो भवत्स्थाणोः पुरतः स्थाणुसन्निभः उवाच च प्रसन्नात्मा वरं ब्रूहीति तं मुनिम्
मा भवानि भवानीश दूरं दूरपदप्रद
अपरश्च वरो नाथ देयोयमविचारतः
तदस्तु सर्वं तेभीष्टं वरमन्यं ददामि च ।। 4.2.63.
योगशास्त्रं मया दत्तं तव निर्वाणसाधकम्
रहस्यं योगविद्याया यथावत्त्वं तपोधन
यथा नदी यथा भृंगी सोमनंदी यथा तथा
संति व्रतानि भूयांसि नियमाः संत्यनेकधा
श्रेयसां साधनान्यत्र पापघ्नान्यपि सर्वथा
परो हि नियमश्चैष मां विलोक्य यदश्यते
असमर्च्य च यो भुङ्क्ते पत्रपुष्पफलैरपि
महतो नियमस्यास्य भवतानुष्ठितस्य वै
अतो मच्चरणाभ्याशे त्वं निवत्स्यसि सर्वथा
जैगीषव्येश्वरं नाम लिंगं काश्यां सुदुर्लभम् 4.2.63.
जैगीषव्यगुहां प्राप्य योगाभ्यसनतत्परः
तव लिंगमिदं भक्तैः पूजनीयं प्रयत्नतः
अत्र ज्येष्ठेश्वरक्षेत्रे त्वल्लिंगं सर्वसिद्धिदम्
अस्मिञ्ज्येष्ठेश्वरक्षेत्रे संभोज्य शिवयोगिनः
जैगीषव्येश्वरं लिंगं गोपनीयं प्रयत्नतः
करिष्याम्यत्र सांनिध्यमस्मिँल्लिंगे तपोधन
ददे शृणु महाभाग जैगीषव्यापरं वरम्
महापापौघशमनं महापुण्यप्रवर्धनम्