नमस्ते खंडपरशो नमः खंडें दुधारिणे
गीर्वाणगीतनाथाय गंगाकल्लोलमालिने ।। 4.2.63.
चंद्रार्धशुद्धभूषाय चंद्रसूर्याग्निचक्षुषे
जगदीशाय जीर्णाय जराजन्महराय ते
नमो डमरुहस्ताय धनुर्हस्ताय ते नमः
त्रिशूलव्यग्रहस्ताय नमस्त्रिपथगाधर
त्रयीमयाय तुष्टाय भक्ततुष्टिप्रदाय च
दारिताशेषपापाय नमस्ते दीर्घदर्शिने
दोषाकर कलाधार त्यक्तदोषागमाय च
नमो धीराय धर्माय धर्मपालाय ते नमः
नाममात्रस्मृतिकृतां त्रैलोक्यैश्वर्यपूरक
पशुपाशविमोक्षाय पशूनां पतये नमः 4.2.63.
परात्पराय पाराय परापरपराय च
वामदेवाय वामार्धधारिणे वृषगामिने
भवाय भवनाशाय भूतानांपतये नमः
नमो मृडानीपतये नमो मृत्युंजयाय ते
यायजूकाय यज्ञाय यज्ञानां फलदायिने
शूलिने शाश्वतेशाय श्मशानावनिचारिणे
हराय क्षांतिरूपाय क्षेत्रज्ञाय क्षमाकर
अंधकारे नमस्तुभ्यमाद्यंतरहिताय च
उमाकांताय उग्राय नमस्ते ऊर्ध्वरेतसे
अनंतकारिणे तुभ्यमंबिकापतये नमः 4.2.63.
दृश्यादृश्य यदत्रास्ति तत्सर्वं त्वमु माधव
वाच्यस्त्वं वाचकस्त्वं हि वाक्च त्वं प्रणतोस्मि ते
नान्यं नमामि गौरीश नान्याख्यामाददे शिव
पंगुरन्याभिगमनेऽस्म्यंधोऽन्यपरिवीक्षणे
पाता हर्ता त्वमेवैको नानात्वं मूढकल्पना
संसारसागरे मग्नं मामुद्धर महेश्वर
वाचंयमो भवत्स्थाणोः पुरतः स्थाणुसन्निभः उवाच च प्रसन्नात्मा वरं ब्रूहीति तं मुनिम्
मा भवानि भवानीश दूरं दूरपदप्रद