ज्येष्ठशुक्लचतुर्दश्यां सोमवारानुराधयोः
ज्येष्ठस्थानं ततः काश्यां तदाभूदपि पुण्यदम् 4.2.63.
तल्लिंगदर्शनात्पुंसां पापं जन्मशतार्जितम्
ज्येष्ठवाप्यां नरः स्नात्वा तर्पयित्वा पितामहान्
आविरासीत्स्वयं तत्र ज्येष्ठेश्वर समीपतः
ज्येष्ठे मासि सिताष्टम्यां तत्र कार्यो महोत्सवः
ज्येष्ठां गौरीं नमस्कृत्य ज्येष्ठवापी परिप्लुता
निवासं कृतवाञ्शंभुस्तस्मिन्स्थाने यतः स्वयम्
निवासेश्वरलिंगस्य सेवनात्सर्वसंपदः
कृत्वा श्राद्धं विधानेन ज्येष्ठस्थाने नरोत्तमः
ज्येष्ठतीर्थे नरः काश्यां दत्त्वा दानानि शक्तितः
ज्येष्ठेश्वरो र्च्यः प्रथमं काश्यां श्रेयोर्थिभिर्नरैः 4.2.63.
अथ नंदिनमाहूय धूर्जटिः स कृपानिधिः
तदंतरेस्ति मे भक्तो जैगीषव्यस्तपोधनः
महानियमवान्नंदिस्त्वगस्थिस्नायु शेषितः
यदाप्रभृत्यगां काश्या मंदरं सर्वसुंदरम्
गृहाण लीलाकमलमिदं पीयूषपोषणम्
ततो नंदी समादाय तल्लीलाकमलं विभोः
नंदी दृष्ट्वाथ तं तत्र धारणादृढमानसम्
तपांते वृष्टिसंयोगाच्छालूर इव कोटरे
अथ नंदी समादाय सत्वरं मुनिपुंगवम्
जैगीषव्योथ संभ्रांतः पुरतो वीक्ष्य शंकरम् 4.2.63.
प्रणम्य दंडवद्भूमौ परिलुठ्य समंततः
जगदानंदकंदाय परमानंदहेतवे
अरूपाय सरूपाय नानारूपधराय च
स्थावराय नमस्तुभ्यं जंगमाय नमोस्तुते
नमस्त्रैलोक्यकाम्याय कामांगदहनाय च
श्रीकंठाय नमस्तुभ्यं विषकंठाय ते नमः
नमः शक्त्यर्धदेहाय विदेहाय सुदेहिने
कालाय कालकालाय कालकूट विषादिने