प्राच्या देहलिविघ्नेशात्कूश्मांडाख्यो विनायकः
उद्दंडाख्याद्गणपतेराशुशुक्षणिदिक्स्थितः
पाताले तस्य देहोस्ति मुंडं काश्यां व्यवस्थितम
पाशपाणेर्गणेशानाद्दक्षिणे विकटद्विजम्
खर्वाख्यान्नैर्ऋतेभागे राजपुत्रो विनायकः
गंगायाः पश्चिमे कूले प्रणवाख्यो गणाधिपः
द्वितीयावरणे काश्यामष्टावेते विनायकाः
क्षेत्रे तृतीयावरणे क्षेत्ररक्षाकृतः सदा
उदग्वहायाः स्वर्धुन्या रम्ये रोधसि विघ्नराट् 4.2.57.
कूटदंताद्गणपतेरुदीच्यामेकदंतकः
काशीभयहरो नित्यमैश्यां शालकटंकटात्
कूश्मांडात्पूर्वदिग्भागे पंचास्यो नाम विघ्नराद्
हेरंबाख्यः सदाग्नेय्यां पूज्यो मुंडविनायकात्
अवाच्यामर्चयेद्धीमान्सिद्ध्यै विकटदंततः
विनायकाद्राजपुत्रात्किंचिद्रक्षोदिशिस्थितः
याम्यां प्रणवविघ्नेशाद्गणेशो मोदकप्रियः
चतुर्थावरणे काश्यां भक्तविघ्नविनाशकाः
वक्रतुंडादुदग्दिक्स्थः स्वःसिंधो रोधसिस्थितः
कौबेर्यामेकदशनात्सिंहतुंडो विनायकः 4.2.57.
कूणिताक्षो गणाध्यक्षस्त्रितुंडादीश दिक्स्थितः
प्राच्यां पंचास्यतः पायात्पुरीं क्षिप्रप्रसादनः
हेरंबाद्वह्निदिग्भागे चिंतामणि विनायकः
विघ्नराजादवाच्यां तु दंतहस्तो गणेश्वरः
वरदाद्यातुधान्यां च यातुधानगणावृतः
दृष्टः पिलिपिलातीर्थे दक्षिणे मोदकप्रियात्
प्राकारे पंचमे काश्यां द्विचतुष्क विनायकाः
तीरे स्वर्गतरंगिण्या उत्तरे चाभयप्रदात्
सिंहतुडादुदग्भागे कलिप्रिय विनायकः
कूणिताक्षात्तथैशान्यां चतुर्दंतो विनायकः 4.2.57.
याम्यांसृष्टिगणेशश्च सृष्टिसंहारसूचकः ९ [ प्रतीच्यां गजकर्णश्च सर्वेषां क्षेमकारकः 4.2.57.