इमां स्तुतिं ममकृतिं यः पठिष्यति सन्मतिः
ढौंढीं स्तुतिमिमां पुण्यां यः पठेड्ढुंढि संनिधौ
इमां स्तुतिं नरो जप्त्वा परं नियतमानसः
पुत्रान्कलत्रं क्षेत्राणि वराश्वान्वरमंदिरम्
सर्वसंपत्करं नाम स्तोत्रमेतन्मयेरितम्
जप्त्वा स्तोत्रमिदं पुण्यं क्वापि कार्ये गमिष्यतः
अन्यच्च कथयाम्यत्र शृण्वंत्वेते दिवौकसः
काश्यां गंगासि संभेदे नामतोर्कविनायकः
दुर्गो नाम गणाध्यक्षः सर्वदुर्गतिनाशनः 4.2.57.
भीमचंडी समीपे तु भीमचंडविनायकः
क्षेत्रस्य पश्चिमे भागे स देहलिविनायकः
क्षेत्रवायव्यदिग्भागे उद्दंडाख्यो गजाननः
काश्याः सदोत्तराशायां पाशपाणिर्विनायकः
गंगावरणयोः संगे रम्यः खर्वविनायकः
प्राच्यां तु क्षेत्ररक्षार्थं सिद्धः सिद्धिविनायकः
बाह्यावरणगाश्चैते काश्यामष्टौ विनायकाः
द्वितीयावरणे चैव ये रक्षंति विनायकाः
स्वर्धुन्याः पश्चिमे कूले उत्तरेर्कविनायकात्
तत्पश्चिमेकूटदंत उदग्दुर्गविनायकात् ।। 4.2.57.
भीमचंड गणाध्यक्षात्किंचिदीशानदिग्गतः
प्राच्या देहलिविघ्नेशात्कूश्मांडाख्यो विनायकः
उद्दंडाख्याद्गणपतेराशुशुक्षणिदिक्स्थितः
पाताले तस्य देहोस्ति मुंडं काश्यां व्यवस्थितम
पाशपाणेर्गणेशानाद्दक्षिणे विकटद्विजम्
खर्वाख्यान्नैर्ऋतेभागे राजपुत्रो विनायकः
गंगायाः पश्चिमे कूले प्रणवाख्यो गणाधिपः
द्वितीयावरणे काश्यामष्टावेते विनायकाः
क्षेत्रे तृतीयावरणे क्षेत्ररक्षाकृतः सदा
उदग्वहायाः स्वर्धुन्या रम्ये रोधसि विघ्नराट् 4.2.57.
कूटदंताद्गणपतेरुदीच्यामेकदंतकः