त्वद्दुष्टदृष्टिविशिखैर्निहतान्निहन्मि दैत्यान्पुरांधकजलंधरमुख्यकांश्च
अन्वेषणे ढुंढिरयं प्रथितोस्तिधातुः सर्वार्थढुंढिततया तव ढुंढि नाम
ढुंढे प्रणम्यपुरतस्तवपादपद्मं यो मां नमस्यति पुमानिह काशिवासी
स्नात्वा नरः प्रथमतो मणिकर्णिकायामुद्धूलितांघ्रियुगलस्तु सचैलमाशु
सामोदमोदकभरैर्वरधूपदीपैर्माल्यैः सुगंधबहुलैरनुलेपनैश्च
तीर्थांतराणि च ततः क्रमवर्जितोपि संसाधयन्निह भवत्करुणाकटाक्षैः
यः प्रत्यहं नमति ढुं ढिविनायकं त्वां काश्यां प्रगे प्रतिहताखिलविघ्नसंघः
यो नाम ते जपति ढुंढिविनायकस्य तं वै जपंत्यनुदिनं हृदि सिद्धयोष्टौ
दूरे स्थितोप्यहरहस्तव पादपीठं यः संस्मरेत्सकलसिद्धिद ढुंढिराज 4.2.57.
जाने विघ्नानसंख्यातान्विनिहंतुमनेकधा
यानि यानि च रूपाणि यत्रयत्र च तेनघ
प्रथमं ढुंढिराजोसि मम दक्षिणतो मनाक्
अंगारवासरवतीमिह यैश्चतुर्थीं संप्राप्य मोदकभरैः परिमोदवद्भिः
ये त्वामिह प्रति चतुर्थि समर्चयंति ढुंढे विगाढमतयः कृतिनस्त एव
माघशुक्लचतुर्थ्यां तु नक्तव्रतपरायणाः
विधाय वार्षिकीं यात्रां चतुर्थीं प्राप्य तापसीम्
कार्या यात्रा प्रयत्नेन क्षेत्रसिद्धिमभीप्सुभिः
तां यात्रां नात्रयः कुर्यान्नैवेद्यतिललडुकैः
होमं तिलाज्यद्रव्येण यः करिष्यति भक्तितः 4.2.57.
वैदिकोऽवैदिको वापि यो मंत्रस्ते गजानन
इमां स्तुतिं ममकृतिं यः पठिष्यति सन्मतिः
ढौंढीं स्तुतिमिमां पुण्यां यः पठेड्ढुंढि संनिधौ
इमां स्तुतिं नरो जप्त्वा परं नियतमानसः
पुत्रान्कलत्रं क्षेत्राणि वराश्वान्वरमंदिरम्
सर्वसंपत्करं नाम स्तोत्रमेतन्मयेरितम्
जप्त्वा स्तोत्रमिदं पुण्यं क्वापि कार्ये गमिष्यतः
अन्यच्च कथयाम्यत्र शृण्वंत्वेते दिवौकसः
काश्यां गंगासि संभेदे नामतोर्कविनायकः
दुर्गो नाम गणाध्यक्षः सर्वदुर्गतिनाशनः 4.2.57.
भीमचंडी समीपे तु भीमचंडविनायकः