यदहं प्राप्तवानस्मि पुरीं वाराणसीं शुभाम्
यद्दुष्प्रसाध्यं हि पितुरपि त्रिजगतीतले
अनेन गजवक्त्रेण स्वबुद्धिविभवेरिह
पुत्रवानहमेवास्मि यच्च मे चिरचिंतितम्
इत्युक्त्वा त्रिपुरीहर्ता पुरुहूतादिभिः स्तुतः
अविघ्नविघ्नशमन महाविघ्नैकविघ्नकृत्
जय सर्वगणाधीश जय सर्व गणाग्रणीः
जय सर्वग सर्वेश सर्वबुद्ध्येकशेवधे
सर्वमंगलमांगल्य जय त्वं सर्वमंगल 4.2.57.
जय सृष्टिकृतां वंद्य जय स्थितिकृतानत
सिद्धवंद्यपदांभोज जयसिद्धिविधायक
अशेषगुणनिर्माण गुणातीत गुणाग्रणी
जय सर्वबलाधीश बलाराति बलप्रद
अनंतमहिमाधार धराधर विदारण
ये त्वांनमंति करुणामय दिव्य मूर्ते सर्वैनसामपि भुवो भुविमुक्तिभाजः
ये विघ्नराज भवता करुणाकटाक्षैः संप्रेक्षिताः क्षितितले क्षणमात्रमत्र
ये त्वां स्तुवंति नतविघ्नविघातदक्ष दाक्षायणीहृदयपंकजतिग्मरश्मे
ये शीलयंति सततं भवतोंघ्रियुग्मं ते पुत्रपौत्रधनधान्यसमृद्धिभाजः
त्वं कारणं परमकारणकारणानां वेद्योसि वेदविदुषां सततं त्वमेकः 4.2.57.
वेदा विदंति न यथार्थतया भवंतं ब्रह्मादयोपि न चराचर सूत्रधार
त्वद्दुष्टदृष्टिविशिखैर्निहतान्निहन्मि दैत्यान्पुरांधकजलंधरमुख्यकांश्च
अन्वेषणे ढुंढिरयं प्रथितोस्तिधातुः सर्वार्थढुंढिततया तव ढुंढि नाम
ढुंढे प्रणम्यपुरतस्तवपादपद्मं यो मां नमस्यति पुमानिह काशिवासी
स्नात्वा नरः प्रथमतो मणिकर्णिकायामुद्धूलितांघ्रियुगलस्तु सचैलमाशु
सामोदमोदकभरैर्वरधूपदीपैर्माल्यैः सुगंधबहुलैरनुलेपनैश्च
तीर्थांतराणि च ततः क्रमवर्जितोपि संसाधयन्निह भवत्करुणाकटाक्षैः
यः प्रत्यहं नमति ढुं ढिविनायकं त्वां काश्यां प्रगे प्रतिहताखिलविघ्नसंघः
यो नाम ते जपति ढुंढिविनायकस्य तं वै जपंत्यनुदिनं हृदि सिद्धयोष्टौ
दूरे स्थितोप्यहरहस्तव पादपीठं यः संस्मरेत्सकलसिद्धिद ढुंढिराज 4.2.57.
जाने विघ्नानसंख्यातान्विनिहंतुमनेकधा