विश्वनाथो ह्यहं नाथः काशिकामुक्तिकाशिका
पंचक्रोश्यापरिमिता तनुरेषा पुरी मम
संसारभारखिन्नानां यातायातकृतां सदा
मंडपः कल्पवल्लीनां मनोरथफलैरलम्
चक्रवर्तेरियं छत्रं विचित्रं सर्वतापहृत्
निर्वाणलक्ष्मीं ये पुण्याः परिवांछंति लीलया
ममानंदवने ये वै निरं तर वनौकसः
निर्ममं चापि निर्मोहं या मामपि विमोहयेत् ।। 4.2.55.
नामापि मधुरं यस्याः परानंदप्रकाशकम्
काशीनामसुधापानं ये कुर्वंति निरंतरम्
ममतारहितस्यापि मम सर्वात्मनो ध्रुवम्
रहस्यमिति विज्ञाय वाराणस्या गणेश्वरैः
अन्यथा ताश्च योगिन्यः सरविः सपितामहः
अतीव भद्रं संजातं काश्यां तिष्ठत्सु तेषु हि
लब्धप्रवेशास्तावंतस्ते सर्वे मत्स्वरूपिणः
अन्यानपि प्रेषयामि मत्पार्श्वपरिवर्तिनः
विचार्येति महादेवः समाहूय गजाननम्
तत्रस्थितोपि संसिद्धयै यतस्व सहितो गणैः 4.2.55.
आधाय शासनं मूर्ध्नि गणाधीशोथ धूर्जटेः
महाशाखविशाखाभ्यां नंदिभृंगिपुरोगमः
नैगमेयेन सहितो रुद्रैः सर्वत्र संवृतः
समस्तायतनाधीशैर्दिक्पालैरभिनंदितः
कृतपूजोप्सरोभिश्च नृत्यहस्तकपल्लवैः
ऋषीणां ब्रह्मनिर्घोषैर्बधिरीकृतदिङ्मुखः
त्रिविष्टप वधूमुष्टिभ्रष्टैर्लाजैरितस्ततः
दत्तमाल्योपहारश्च बहुविद्याधरी गणैः
कृतप्रवेश शकुनो मृगैः शकुनिभिः पुरः
विष्णुना च महालक्ष्म्या ब्रह्मणा विश्वकर्मणा
नागांगनाभिः परितः कृतनीराजनाविधिः 4.2.57.
पश्यतां सर्वदेवानामवरुह्य वृषेंद्रतः