स्वयं वस्तुमशक्तोपि वासयेत्तीर्थवासिनम्
काश्यां वसंति ये धीरा आपंचत्व विनिश्चयाः
इत्थं विमृश्य बहुशः स्थाणुर्वाराणसीगुणान्
तारकत्वं समागच्छ गच्छाति स्वच्छमानस
तिलपर्ण स्धूलकर्ण दृमिचंड प्रभामय
वीरभद्र किराताख्य चतुर्मुख निकुंभक 4.2.53.
नाद्रीणां न समुद्राणां न द्रुमाणां महीयसाम् 4.2.53.
तारकेशं महालिंगं तारकाख्यो गणोत्तमः 4.2.53.
अन्येपि ये गणास्तत्र काश्यां लिंगानि चक्रिरे
गणेन पिंगलाख्येन पिंगलाख्येशसंज्ञितम्
तस्य दर्शनमात्रेण पापानां जायते क्षयः
वीरभद्रेश्वरं लिंगं ध्यायेदद्यापि निश्चलः
अविमुक्तेश्वरात्पश्चाद्वीरभद्रेश्वरं नरः
वीरभद्रः स्वयं साक्षाद्वीरमूर्तिधरो मुने
भद्रया भद्रकाल्या च भार्यया शुभया युतम्
किरातेन किरातेशं लिंगं काश्यां प्रतिष्ठितम्
चतुर्मुखो गणः श्रीमान्वृद्धकालेश सन्निधौ
भक्ताश्चतुर्मुखेशस्य चतुराननवद्दिवि 4.2.55.१
निकुंभेश्वरमालोक्य निकुंभगणपूजितम् कुबेरेश समीपेतु शिवलोके महीयते
पंचाक्षेशं महालिंगं महादेवस्य दक्षिणे
भारभूतेश्वरं लिंगं भारभूतगणार्चितम्
भारभूतेश्वरं लिंगं यैः काश्यां न विलोकितम्
गणेन त्र्यक्षसंज्ञेन लिंगं त्र्यक्षेश्वरं परम्
तस्य लिंगस्य ये भक्तास्ते तु देहावसानतः
क्षेमको नाम गणपः काश्यां मूर्तिधरः स्वयम्
क्षेमकं पूजयेद्यस्तु वाराणस्यां महागणम्
देशांतरं गतो यस्तु तस्यागमनकाम्यया
लांगलीश्वरमालोक्य लिंगं लांगलिनार्चितम् 4.2.55.
लांगलीशं सकृत्पूज्य पंचलांगलदानजम्
विराधेश्वरमाराध्य विराधगणपूजितम्