लिंगं समर्चितं दृष्ट्वा यः कुर्यात्प्रणतिं सकृत्
लिंगं यः स्थापयेद्भक्त्या सप्तजन्मकृतादघात्
विचार्येति गणैः काश्यां स्वामिद्रोहोपशांतये
कुंडोदरेश्वरं लिंगं दृष्ट्वा लोलार्कसन्निधौ
कुंडोदरेश्वराल्लिंगात्प्रतीच्यामसिरोधसि
मयूरेशप्रतीच्यां च लिंगं बाणेश्वरं महत् 4.2.53.
गोकर्णेशं महालिंगमंतर्गेहस्य पश्चिमे
गोकर्णेश्वर भक्तस्य पंचत्व समये सति
महिमानं महत्त्वं तु तत्काश्याः पर्यवर्णयत्
वैष्णव्या मायया विश्वं भ्राम्येतात्र ययाखिलम्
अपास्य सोदरान्दारान्पुत्रं क्षेत्रं गृहं वसु
मरणादपि नो काश्यां भयं यत्र मनागपि
मरणं मंगलं यत्र विभूतिर्यत्र भूषणम्
निर्वाणरमणी यत्र रंकं वाऽरंकमेव वा
मृतानां यत्र जंतूनां निर्वाणपदमृच्छताम्
यत्र काश्यां मृतो जंतुर्ब्रह्मनारायणादिभिः 4.2.53.
यत्र काश्यां शवत्वेपि जंतुर्नाशुचितां व्रजेत्
यस्तु काशीति काशीति द्विस्त्रिर्जपति पुण्यवान्
येन काशी हृदि ध्याता येन काशीह सेविता
काशीं यः सेवते जंतुर्निर्विकल्पेन चेतसा
स्वयं वस्तुमशक्तोपि वासयेत्तीर्थवासिनम्
काश्यां वसंति ये धीरा आपंचत्व विनिश्चयाः
इत्थं विमृश्य बहुशः स्थाणुर्वाराणसीगुणान्
तारकत्वं समागच्छ गच्छाति स्वच्छमानस
तिलपर्ण स्धूलकर्ण दृमिचंड प्रभामय
वीरभद्र किराताख्य चतुर्मुख निकुंभक 4.2.53.
नाद्रीणां न समुद्राणां न द्रुमाणां महीयसाम् 4.2.53.
तारकेशं महालिंगं तारकाख्यो गणोत्तमः 4.2.53.
अन्येपि ये गणास्तत्र काश्यां लिंगानि चक्रिरे
गणेन पिंगलाख्येन पिंगलाख्येशसंज्ञितम्