व्रतं तीर्थं तपो वेदा यज्ञाश्च नियमादयः 1.3.1.7.
निशम्य वाक्यं मुनिपुंगवस्य प्रसेदुषी पर्वतराजपुत्री
अहं कृतार्था तपतां वरिष्ठ त्वत्संगमात्संप्रति तीर्थजालम्
कथं गिरीशः पुनरत्र देवः स्फुरन्महावह्निवपुर्धरोऽपि
आदिष्टस्तीर्थयात्रार्थमहं लिंगानि वीक्षितुम्
रुद्रक्षेत्रे च केदारे तथा बदरिकाश्रमे
कांचीमुख्यासु पुण्यासु पुरीष्वप्यगमं तदा
स्थापितानि च लिंगानि स्वयंभूनि च दृष्टवान्
सेवमानः सशिष्योऽहं पर्यटन्पृथिवीमिमाम्
तपांसि यज्ञकर्माणि कुर्वन्भूमिं समाचरन्
सर्वाणि भुवि पुण्यानि देशमेतमुपाश्रयम्
अरुणाद्रिरितिख्यातं पर्वतं लिंगमैक्षिषि
कंदमूलफलाहारा दृष्टाः शोणाद्रि सेवकाः
आद्येन ब्रह्मणा पूर्वमर्चितं दिव्यचक्षुषा ।। 1.3.1.8.
इति वेदा स्तुवंति त्वामरुणाद्रीश संततम्
सर्ववेदस्वरूपाय नित्यायामृतमूर्त्तये
भक्तवात्सल्यपूर्णाय पुण्याय पुरभेदिने
भुवि लब्धवता भूयो नान्यत्कार्यं तपः क्वचित्
प्रार्थयते स्वयं वासान्देवाश्चात्र त्वदाश्रये
अन्यत्कृतं तपः सर्वं त्वद्दर्शनफलं मम
एकमद्रिमयं लिंगं न क्वचिद्दृष्टवान्भुवि
त्रिमूर्तिरूप देवेश दृश्यते ते वपुर्महत्
त्रिवेदात्मं त्रिकोणांगं लिंगं ते दृष्टमद्भुतम्
दृश्यते वसुधाभागे शोणाद्रिरिति विश्रुतः 1.3.1.8.
वितरत्यखिलान्भोगान्व्याजकरुणानिधिः
इदं तु पूजितं देवैः सदा सर्ववरप्रदम्
त्रायस्व भवभीतं मां प्रपन्नं भक्तवत्सल
कृतार्थय कृपासिंधो शरण्य शरणागतम्
अदर्शयत्परं रूपं दिव्यमेहीत्युवाच माम्
अत्रैव भवतो वासो नित्यमस्तु ममांतिके