पुराविदः प्रशंसंति त्वां महामोहहारिणीम्
प्रेषयिष्याम्यहं सर्वान्भवती मोहयिष्यति
तथापि प्रेषयिष्यामि यावान्मेस्ति परिच्छदः
नोद्यमाद्विरतिः कार्या क्वापि कार्ये विचक्षणैः
शीतोष्णभानू स्वर्भानु ग्रस्तावपि नभोंगणे
दैवं पूर्वकृतं कर्म कथ्यते नेतरत्पुनः 4.2.53.
भाजनोपस्थितं दैवाद्भोज्यं नास्यं स्वयं विशेत्
इत्युद्यमं समर्थ्येशो निश्चितं दैवजित्वरम्
सोमनंदी नंदिषेणः कालपिंगलकुक्कुटाः
तेपि स्वनाम्ना लिंगानि शंभुसंतुष्टि काम्यया
सोमनंदीश्वरं दृष्ट्वा लिंगं नंदवने परम्
तदुत्तरे विलोक्याथ नंदिषेणेश्वरं नरः
कालेश्वरं महालिंगं गंगायाः पश्चिमोत्तरे
पिंगलेश्वरमभ्यर्च्य कालेशात्किंचिदुत्तरे
कुक्कुटेश्वर लिंगस्य येत्र भक्तिं वितन्वते
आनंदकाननं प्राप्य स्थितेषु स्थाणुरब्रवीत् ।। 4.2.53.
कार्यमस्माकमेवैतद्यदि सम्यग्विमृश्यते
प्रमथेषु प्रविष्टेषु मायावीर्यमहत्स्वपि
क्रमेण प्रेषयिष्यामि योस्ति मे स्वपरिच्छदः
संप्रधार्येति हृदये देवदेवेन शूलिना
कुंडोदरो मयूराख्यो बाणो गोकर्ण एव च
कृत्वोपायशतं तैस्तु दिवोदासस्य संभ्रमे यदैकोपि समर्थो न तदा तत्रैव संस्थितम्
अपराधशतेष्वीशः केन तुष्यति कर्मणा
एकस्मिञ्शांभवे लिंगे विधिनात्र समर्चिते
न तुष्यति तथा शंभुर्यज्ञदानतपोव्रतैः
लिंगार्चनविधानज्ञो लिंगार्चनरतः सदा 4.2.53.
न गोशतप्रदानेन न स्वर्णशतदानतः
अश्वमेधादिभिर्यागैर्न तत्फलमवाप्यते
स्नापयित्वा विधानेन यो लिंगस्नपनोदकम्
लिंग स्नपनवार्भिर्यः कुर्यान्मूर्ध्न्यभिषेचनम्