काशीप्रवृत्तिं नो जाने दिवोदासनृपस्य च
शंकुकर्णमहाकालौ कालस्यापि प्रकंपनौ
कृतप्रतिज्ञौ तो(?) तूर्णं प्राप्य वाराणसीं पुरीम्
यथैंद्रजालिकीं दृष्ट्वा मायामिह विचक्षणः
अहो मोहस्य माहात्म्यमहो भाग्यविपर्ययः
तत्यजे यैरियं काशी महाशीर्वादभूभिका
यत्र सर्वावभृथतः स्नानमात्रं विशिष्यते 4.2.53.
यत्रैकपुष्पदानेन शिवलिंगस्य मूर्धनि
यत्र दंडप्रणामेन अप्येकेन शिवाग्रतः
यत्रैकद्विजमात्रं तु भोजयित्वा यथेच्छया
एकां गां यत्र दत्त्वा वै विधिवद्ब्राह्मणाय वै
एकलिंगं प्रतिष्ठाप्य यत्र संस्थापितं भवेत्
परिनिश्चित्य तावित्थं लिंगे संस्थाप्य पुण्यदे
शंकुकर्णेश्वरं लिंगं शंकुकर्ण ग णार्चितम्
विश्वेशाद्वायुदिग्भागे शंकुकर्णेश्वरं नरः
महाकालेश्वरं लिंगं महाकालगणार्चितम्
ज्ञात्वा सर्वज्ञनाथोथ प्राहैपीदपरौ गणौ ।। 4.2.53.
घंटाकर्ण त्वमागच्छ महोदर महामते
इत्यगस्ते गणौ तौ तु गत्वा काशीं महापुरीम्
घंटाकर्णेश्वरं लिंगं घंटाकर्ण गणोत्तमः
कुंडं तत्रैव संस्थाप्य लिंगस्नपनकर्मणे
महोदरोपि तत्प्राच्यां शिवध्यानपरायणः
महोदरेश्वरं दृष्ट्वा वाराणस्यां द्विजोत्तम
घंटाकर्ण ह्रदे स्नात्वा दृष्ट्वा व्यासेश्वरं विभुम्
घंटाकर्णे महातीर्थे श्राद्धं कृत्वा विधानतः
निमज्ज्याद्यापि तत्कुंडे क्षण योवहितो भवेत्
वदंति पितरः काश्यां घंटाकर्णेमलेजले 4.2.53.
यद्वंश्या मुनयः काश्यां घंटाकर्णे महाह्रदे
विसिस्माय स्मरद्वेष्टा मौलिमांदोलयन्मुहुः
उवाच च मनस्येव हरः स्मित्वा पुनःपुनः