शंभोः शक्तिरियं काशी काचित्सर्वैरगोचरा
इति निश्चित्य मनसि शंभोरानंदकानने
व्यास उवाच इत्थं समाकर्ण्य मुनिः पुनः पप्रच्छ षण्मुखम् 4.1.45.
भजनाद्योगिनीनां च काश्यां किं जायते फलम्
श्रुत्वेतिप्रश्नमौमेयो योगिनीसंश्रयं ततः
आकर्ण्य यानि पापानि क्षयंति भविनां क्षणात्
गजानना सिंहमुखी गृध्रास्या काकतुंडिका
उलूकिका शिवारावा मयूरी विकटानना
शुष्कोदरी ललज्जिह्वा श्वदंष्ट्रा वानरानना
कपालहस्ता रक्ताक्षी शुकी श्येनी कपोतिका
शिशुघ्नी पापहंत्री च काली रुधिरपायिनी
स्थूलकेशी बृहत्कुक्षिः सर्पास्या प्रेतवाहना
व्यात्तास्या धूमनिःश्वासा व्योमैकचरणोर्ध्वदृक् 4.1.45.
विद्युत्प्रभा बलाकास्या मार्जारी कटपूतना
नामानीमानि यो मर्त्यश्चतुःषष्टिं दिनेदिने
न डाकिन्यो न शाकिन्यो न कूष्मांडा न राक्षसाः
शिशूनां शांतिकारीणि गर्भशांतिकराणि च
लभेदभीप्सितां सिद्धिं योगिनीपीठसेवकः
बलिपूजोपहारैश्च धूपदीपसमर्पणैः
शरत्काले महापूजां तत्र कृत्वा विधानतः
आरभ्याश्वयुजःशुक्लां तिथिं प्रतिपदं शुभाम्
कृष्णपक्षस्य भूतायामुपवासी नरोत्तमः
प्रणवादिचतुर्थ्यन्तैर्नामभिर्भक्तिमान्नरः 4.1.45.
ससर्पिषा गुग्गुलुना लघुकोलि प्रमाणतः
चैत्रकृष्णप्रतिपदि तत्र यात्रा प्रयत्नतः
यात्रा च सांवत्सरिकीं यो न कुर्यादवज्ञया
अग्रे कृत्वा स्थिताः सर्वास्ताः काश्यां मणिकर्णिकाम्
किं चकार पुनः शंभुस्तत्र ब्रह्मण्यपि स्थिते
शृण्वगस्त्य महाभाग काश्यां ब्रह्मण्यपिस्थिते
पुरी सा यादृशी काशी वशीकरणभूमिका