मोहात्समुपयच्छेत कुलहीनां न कन्यकाम्
लक्षणानि परीक्ष्यादौ ततः कन्यां समुद्वहेत्
ब्रह्मचारि समाचार इति ते समुदी रितः
स्वनेत्रदैर्घ्यनिर्माणं प्रशशंस फलान्वितम्
दिव्यप्रासादमालानां पताकाश्चलपल्लवाः
चंचत्प्रासादमाणिक्यैर्विजृंभितमरीचिभिः
देवत्वं माययाच्छाद्य वेषं कार्पटिकोचितम्
काचिच्चयोगिनी भूता काचिज्जाता तपस्विनी
मालाकारवधूः काचित्काचिन्नापितसुंदरी
वैश्या च काचिदभवत्क्रयविक्रयचंचुरा
एका च नृत्यकुशला त्वन्या गानविशारदा
मृदंगवादनज्ञान्या काचित्ताल कलावती
गंधभागविधिज्ञान्या काचिदक्षकलालया 4.1.45.
वंशाधिरोहणे दक्षा रज्जुमार्गेण चेतरा
अपत्यदाऽनपत्यानां परा तत्रपुरेऽवसत्
चित्रलेखन नैपुण्यात्काचिज्जनमनोहरा
गुटिकासिद्धिदा काचित्काचिदंजनसिद्धिदा
अग्निस्तंभ जलस्तंभ वाक्स्तंभं चाप्यशिक्षयत्
काचिदाकर्पणीं सिद्धिं ददावुच्चाटनं परा
चिंतितार्थप्रदा काचित्काचिज्ज्योतिः कलावती
प्रत्यंगणं प्रतिगृहं प्राविशद्योगिनीगणः
न च्छिद्रं लेभिरे क्वापि नृपविघ्नचिकीर्षवः तस्थुः संमंत्र्य तत्रैव न गता मंदरं पुनः
प्रभुकार्यमनिष्पाद्य सदः संभावनैधितः 4.1.45.
अन्यच्च चिंतितं ताभिर्योगिनीभिरिदं मुने
प्रभूरुष्टोपि सद्भृत्ये जीविकामात्रहारकः
नाद्यापि काशीं संत्यज्य तदारभ्य महामुने
प्राप्यापि श्रीमतीं काशीं यस्तितिक्षति दुर्मतिः
कः काशीं प्राप्य दुर्बुद्धिरपरत्र यियासति
विमुखोपीश्वरोस्माकं काशीसेवनपुण्यतः
दिनैः कतिपयैरेव सर्वज्ञोपि समेष्यति