गृहाश्रमः सुखार्थाय भार्यामूलं च तत्सुखम्
जलौकयोपमीयंते प्रमदा मंदबुद्धिभिः
जलौका केवलं रक्तमाददाना तपस्विनी
दक्षा प्रजावती साध्वी प्रियवाक्च वशंवदा
गुरोरनुज्ञया स्नात्वा व्रतं वेदं समाप्य च
जने तु रसगोत्राया मातुर्याप्यसपिंडका
स्त्रीसंबंधेप्यपस्मारि क्षयि श्वित्रि कुलं त्यजेत् 4.1.36.
रोगहीनां भ्रातृमतीं स्वस्मात्किंचिल्लघीयसीम्
न पर्वतर्क्षवृक्षाह्वां न नदीसर्पनामिकाम्
न चातिरिक्तहीनांगीं नातिदीर्घां न वा कृशाम्
मोहात्समुपयच्छेत कुलहीनां न कन्यकाम्
लक्षणानि परीक्ष्यादौ ततः कन्यां समुद्वहेत्
ब्रह्मचारि समाचार इति ते समुदी रितः
स्वनेत्रदैर्घ्यनिर्माणं प्रशशंस फलान्वितम्
दिव्यप्रासादमालानां पताकाश्चलपल्लवाः
चंचत्प्रासादमाणिक्यैर्विजृंभितमरीचिभिः
देवत्वं माययाच्छाद्य वेषं कार्पटिकोचितम्
काचिच्चयोगिनी भूता काचिज्जाता तपस्विनी
मालाकारवधूः काचित्काचिन्नापितसुंदरी
वैश्या च काचिदभवत्क्रयविक्रयचंचुरा
एका च नृत्यकुशला त्वन्या गानविशारदा
मृदंगवादनज्ञान्या काचित्ताल कलावती
गंधभागविधिज्ञान्या काचिदक्षकलालया 4.1.45.
वंशाधिरोहणे दक्षा रज्जुमार्गेण चेतरा
अपत्यदाऽनपत्यानां परा तत्रपुरेऽवसत्
चित्रलेखन नैपुण्यात्काचिज्जनमनोहरा
गुटिकासिद्धिदा काचित्काचिदंजनसिद्धिदा
अग्निस्तंभ जलस्तंभ वाक्स्तंभं चाप्यशिक्षयत्
काचिदाकर्पणीं सिद्धिं ददावुच्चाटनं परा
चिंतितार्थप्रदा काचित्काचिज्ज्योतिः कलावती