गुरुनिंदाभवेद्यत्र परिवादस्तु यत्र च
खरो गुरोः परीवादाच्छ्वा भवेद्गुरुनिंदकः
नाभिवाद्या गुरोः पत्नी स्पृष्ट्वांघ्री युवती सती
स्वभावश्चंचलः स्त्रीणां दोषः पुंसामतः स्मृतः
विद्वांसमप्यविद्वांसं यतस्ताधर्षयंत्यलम्
न मात्रा न दुहित्रा वा न स्वस्रैकांतशीलता
प्रयत्नेन खनन्यद्वद्भूमेर्वार्यधिगच्छति 4.1.36.
शयानमभ्युदयते ब्रध्नश्चेद्ब्रह्मचारिणम्
सुतस्य संभवे क्लेशं सहेते पितरौ च यत्
अतस्तयोः प्रियं कुर्याद्गुरोरपि च सर्वदा
तेषां त्रयाणां शुश्रूषा परमं तप उच्यते
त्रीनेवामून्समाराध्य त्रीँल्लोकान्स जयेत्सुधीः
भूर्लोकं जननी भक्त्या भुवर्लोकं तथा पितुः
एतदेव नृणां प्रोक्तं पुरुषार्थचतुष्टयम्
अधीत्य वेदान्वेदौ वा वेदं वापि क्रमाद्द्विजः
अविप्लुत ब्रह्मचर्यो विश्वेशानुग्रहाद्भवेत्
काशीप्राप्त्या भवेज्ज्ञानं ज्ञानान्निर्वाणमृच्छति 4.1.36.
सदाचारो गृहे यद्वन्न तथास्त्याश्रमांतरे
गृहाश्रमात्परं नास्ति यदि पत्नीवशंवदा
आनुकूल्यं कलत्रं चेत्त्रिदिवेनापि किं ततः
गृहाश्रमः सुखार्थाय भार्यामूलं च तत्सुखम्
जलौकयोपमीयंते प्रमदा मंदबुद्धिभिः
जलौका केवलं रक्तमाददाना तपस्विनी
दक्षा प्रजावती साध्वी प्रियवाक्च वशंवदा
गुरोरनुज्ञया स्नात्वा व्रतं वेदं समाप्य च
जने तु रसगोत्राया मातुर्याप्यसपिंडका
स्त्रीसंबंधेप्यपस्मारि क्षयि श्वित्रि कुलं त्यजेत् 4.1.36.
रोगहीनां भ्रातृमतीं स्वस्मात्किंचिल्लघीयसीम्
न पर्वतर्क्षवृक्षाह्वां न नदीसर्पनामिकाम्
न चातिरिक्तहीनांगीं नातिदीर्घां न वा कृशाम्