प्रोक्तोसावुपकुर्वाणो द्वितीयस्तत्र नैष्ठिकः
गृहाश्रमं समाश्रित्य यः पुनर्ब्रह्मचर्यभाक्
अनाश्रमी न तिष्ठेत दिनमेकमपि द्विजः
जपं होमं व्रतं दानं स्वाध्यायं पितृतर्पणम्
मेखलाजिनदंडाश्च लिंगं स्याद्ब्रह्मचारिणः
त्रिदंडादि यतेरुक्तमुपलक्षणमत्र वै
जीर्णं कमंडलुं दंडमुपवीताजिने अपि
विदध्यात्षोडशे वर्षे केशांतकर्म च क्रमात् 4.1.36.
तपो यज्ञ व्रतेभ्यश्च सर्वस्माच्छुभकर्मणः
वेदारंभे विसर्गे च विदध्यात्प्रणवं सदा
वेदस्य वदनं प्रोक्तं गायत्री त्रिपदा परा
सहस्रं साधिकं किंचित्त्रिकमैतज्जपन्यमी
अत्यब्दमिति योभ्यस्येत्प्रतिघस्रमनन्यधीः
त्रिवर्णमयमोंकारं भूर्भुवःस्वरिति त्रयम्
एतदक्षरमेनां च जपेद्व्याहृतिपूर्विकाम्
विधिक्रतोर्दशगुणं जपस्यफलमश्नुते
उपांशुस्तच्छतगुणः सहस्रो मानसस्ततः
अधीत्यवेदान्वेदौ वा वेदं वा शक्तितो द्विजः 4.1.36.
श्रुतिमेव सदाभ्यस्येत्तपस्तप्तुं द्विजोत्तमः
हित्वा श्रुतेरध्ययनं योन्यत्पठितुमिच्छति
उपनीय च वै शिष्यं वेदमध्यापयेद्द्विजः
योध्यापयेदेकदेशं श्रुतेरंगान्यथापि वा
यथाविधि निषेकादि यः कर्म कुरुते द्विजः
अग्न्याधेयं पाकयज्ञानग्निष्टोमादिकान्मखान्
उपाध्यायाद्दशाचार्य आचार्यात्तु शतं पिता
विप्राणां ज्ञानतो ज्यैष्ठ्यं बाहुजानां तु वीर्यतः
स्वप्ने सिक्त्वा ब्रह्मचारी द्विजः शुक्रमकामतः 4.1.36.
स्वधर्मनिरतानां च वेदयज्ञक्रियावताम्
अकृत्वा भैक्ष्यचरणमसमिध्य हुताशनम्
यथेष्टचेष्टो नभवेद्गुरोर्नयनगोचरे