इतोप्यूर्ध्वं न संस्कार्याः पतिता धर्मवर्जिताः
सावित्रीपतितैः सार्धं संबंधं न समाचरेत्
वसीरन्नानुपूर्व्येण शाण क्षौमाविकानि च भवेत्त्रिवृत्समाश्लक्ष्णा विशस्तु शणतांतवी
मुंजाभावे विधातव्या कुशाश्मंतकबल्वजैः
उपवीतक्रमेण स्यात्कार्पासं शाणमाविकम्
बिल्वपालाशयोर्दंडो ब्राह्मणस्य नृपस्य तु
आमौलिं वाऽऽललाटंवाऽऽनासमूर्ध्वप्रमाणतः
प्रदक्षिणं परीत्याग्निमुपस्थाय दिवाकरम् 4.1.36.
मातृमातृष्वसृस्वसृपितृस्वसृपुरःसराः
यावद्वेदमधीते च चरन्वेदव्रतानि च
प्रोक्तोसावुपकुर्वाणो द्वितीयस्तत्र नैष्ठिकः
गृहाश्रमं समाश्रित्य यः पुनर्ब्रह्मचर्यभाक्
अनाश्रमी न तिष्ठेत दिनमेकमपि द्विजः
जपं होमं व्रतं दानं स्वाध्यायं पितृतर्पणम्
मेखलाजिनदंडाश्च लिंगं स्याद्ब्रह्मचारिणः
त्रिदंडादि यतेरुक्तमुपलक्षणमत्र वै
जीर्णं कमंडलुं दंडमुपवीताजिने अपि
विदध्यात्षोडशे वर्षे केशांतकर्म च क्रमात् 4.1.36.
तपो यज्ञ व्रतेभ्यश्च सर्वस्माच्छुभकर्मणः
वेदारंभे विसर्गे च विदध्यात्प्रणवं सदा
वेदस्य वदनं प्रोक्तं गायत्री त्रिपदा परा
सहस्रं साधिकं किंचित्त्रिकमैतज्जपन्यमी
अत्यब्दमिति योभ्यस्येत्प्रतिघस्रमनन्यधीः
त्रिवर्णमयमोंकारं भूर्भुवःस्वरिति त्रयम्
एतदक्षरमेनां च जपेद्व्याहृतिपूर्विकाम्
विधिक्रतोर्दशगुणं जपस्यफलमश्नुते
उपांशुस्तच्छतगुणः सहस्रो मानसस्ततः
अधीत्यवेदान्वेदौ वा वेदं वा शक्तितो द्विजः 4.1.36.
श्रुतिमेव सदाभ्यस्येत्तपस्तप्तुं द्विजोत्तमः
हित्वा श्रुतेरध्ययनं योन्यत्पठितुमिच्छति