एषां क्रियानिषेकादि श्मशानांता च वैदिकी
स्पंदनात्प्राक्पुंसवनं सीमंतोन्नयनं ततः
नामाह्न्येकादशे गेहाच्चतुर्थेमासि निष्क्रमः
शममेनो व्रजेदेवं बैजं गर्भजमवे च
सप्तमेथाष्टमेवाब्दे सावित्रीं ब्राह्मणोर्हति
ब्रह्मतेजोभिवृद्ध्यर्थं विप्रोब्देपंचमेर्हति
महाव्याहृतिपूर्वं च वेदमध्यापयेद्गुरुः
पूर्वोक्तविधिना शौचं कुर्यादाचमनं तथा 4.1.36.
स्नात्वांबुदैवतैर्मंत्रैः प्राणानायम्य यत्नतः
अग्निकार्यं ततः कृत्वा ब्राह्मणानभिवादयेत्
अभिवादनशीलस्य वृद्धसेवारतस्य च
अधीते गुरुणा हूतः प्राप्तं तस्मै निवेदयेत्
अध्याप्याधर्मतोनार्थात्साध्वाप्तज्ञानवित्तदाः
धारयेन्मेखलादंडोपवीताजिनमेव च
ब्राह्मणक्षत्रियविशामादिमध्यावसानतः
वाग्यतो गुर्वनुज्ञातो भुंजीतान्नमकुत्सयन्
अनारोग्यमनायुष्यमस्वर्ग्यंचातिभोजनम्
न द्विर्भुंजीत चैकस्मिन्दिवा क्वापि द्विजोत्तमः 4.1.36.
मधुमांसं प्राणिहिंसां भास्करालोकनांजने
औपनायनिकः कालो ब्रह्मक्षत्र विशां परः
इतोप्यूर्ध्वं न संस्कार्याः पतिता धर्मवर्जिताः
सावित्रीपतितैः सार्धं संबंधं न समाचरेत्
वसीरन्नानुपूर्व्येण शाण क्षौमाविकानि च भवेत्त्रिवृत्समाश्लक्ष्णा विशस्तु शणतांतवी
मुंजाभावे विधातव्या कुशाश्मंतकबल्वजैः
उपवीतक्रमेण स्यात्कार्पासं शाणमाविकम्
बिल्वपालाशयोर्दंडो ब्राह्मणस्य नृपस्य तु
आमौलिं वाऽऽललाटंवाऽऽनासमूर्ध्वप्रमाणतः
प्रदक्षिणं परीत्याग्निमुपस्थाय दिवाकरम् 4.1.36.
मातृमातृष्वसृस्वसृपितृस्वसृपुरःसराः
यावद्वेदमधीते च चरन्वेदव्रतानि च