तीर्थानि तानि तान्यासन्परितः प्रार्थनावशात् ।। 1.3.1.7.
तीर्थानामुद्भवं सर्व श्रोतुं समुपचक्रमे
भगवन्ब्रूहि सकलं तीर्थानामुद्भवं मम
इति तस्या वचः शृण्वन्गिरीशात्संश्रुतं पुरा
तत्र स्नात्वा पुरा शक्रो ब्रह्महत्यां व्यपोहयत्
ब्रह्मतीर्थं पुनर्दिव्यं वह्निःकोणे समुत्थितम्
याम्यं नाम महातीर्थं यमभागे विजृंभते
नैर्ऋतं तु महातीर्थं नैर्ऋत्यां दिशि शोभते
पश्चिमे वारुणं तीर्थं दिग्भागे च प्रकाशते
वायवे वायवीयं च तीर्थमत्र प्रकाशते
उत्तरे चात्र दिग्भागे सोमतीर्थमिति स्मृतम् 1.3.1.7.
ऐशाने चात्र दिग्भागे विष्णुतीर्थमिति स्मृतम्
मार्कण्डेयः पुरा देवि प्रार्थयामास शंकरम्
बहूनामिह तीर्थानामेकत्र स्यात्समागमः
इति तस्य वचः श्रुत्वा देवदेव उमापतिः
सन्निधिं मम संप्राप्तः सेवते गूढरूपतः
नान्यदन्वेषणीयं ते तीर्थमत्र महामुने
तस्माद्भक्तियुतैर्नित्यं सर्वतीर्थसमागमः
इति देवि पुरा देवो मार्कडेयाय शंकरः
सदोपहारवेलायां दृश्यानि किल मानवैः
व्रतं तीर्थं तपो वेदा यज्ञाश्च नियमादयः 1.3.1.7.
निशम्य वाक्यं मुनिपुंगवस्य प्रसेदुषी पर्वतराजपुत्री
अहं कृतार्था तपतां वरिष्ठ त्वत्संगमात्संप्रति तीर्थजालम्
कथं गिरीशः पुनरत्र देवः स्फुरन्महावह्निवपुर्धरोऽपि
आदिष्टस्तीर्थयात्रार्थमहं लिंगानि वीक्षितुम्
रुद्रक्षेत्रे च केदारे तथा बदरिकाश्रमे
कांचीमुख्यासु पुण्यासु पुरीष्वप्यगमं तदा
स्थापितानि च लिंगानि स्वयंभूनि च दृष्टवान्
सेवमानः सशिष्योऽहं पर्यटन्पृथिवीमिमाम्
तपांसि यज्ञकर्माणि कुर्वन्भूमिं समाचरन्