प्रमथैः सेव्यमानोऽयं त्रिलोकीं विचरन्हरः
अथायांतं महाकालं त्रिनेत्रं सर्पकुंडलम्
पपात दंडवद्भूमौ दृष्ट्वा तं गरुडध्वजः
निपेतुः प्रणिपत्यैनं प्रणतः कमलापतिः
क्षीरोदमथनो तां प्राह पद्मालयां हरिः 4.1.31.
धन्योऽहं देवि सुश्रोणि यत्पश्यावो जगत्पतिम्
अनादिः शरणः शांतः परः षड्विंशसंमितः
सर्वभूतांतरात्माऽयं सर्वेषां सर्वदः सदा
धिया पश्यंति हृदये सोयमद्य समीक्ष्यताम्
यं दृष्ट्वा न पुनर्जन्म लभ्यते मानवैर्भुवि
सोयमायाति भगवांस्त्र्यंबकः शशिभूषणः
धिग्धिक्पदं तु देवानां परं दृष्ट्वाऽत्र शंकरम्
देवत्वादशुभं किंचिद्देवलोके न विद्यते
एवमुक्त्वा हृषीकेशः संप्रहृष्टतनूरुहः 4.1.31.
किमिदं देवदेवेन सर्वज्ञेन त्वया विभो
क्रीडेयं तव देवेश त्रिलोचन महामते
किमर्थं भगवत्र्छंभो भिक्षां चरसि शक्तिप
एवमुक्तस्ततः शंभुर्विष्णुमेतदुदाहरत्
तदघप्रतिघं विष्णो चराम्येतद्व्रतं शुभम्
स्मित्वा किंचिन्नतशिराः पुनरेवं व्यजिज्ञपत्
मायया मां महादेव नच्छादयितुमर्हसि
कल्पे कल्पे सृजामीश त्वन्नियोगबलाद्विभो
मदाद्यो महादेव मायया तव मोहिताः
संहारकाले संप्राप्ते सदेवानखिलान्मुनीन् 4.1.31.
तदा क्व ते महादेव पाप ब्रह्मवधादिकम्
अतीतब्रह्मणामस्थ्नां स्रक्कंठे तव भासते
कृत्वापि सुमहत्पापं त्वां यः स्मरति भावतः
यथा तमो न तिष्ठेत संनिधावंशुमालिनः
यश्चिंतयति पुण्यात्मा तव पादांबुजद्वयम्
तव नामानुरक्ता वाग्यस्य पुंसो जगत्पते