कर्त्रीं कर्परहस्ताग्रां स्फुरत्पिंगोग्रतारकाम्
यावद्वाराणसीं दिव्यां पुरीमेष गमिष्यति
सर्वत्र ते प्रवेशोस्ति त्यक्त्वा वाराणसीं पुरीम्
तत्सान्निध्याद्भैरवोपि कालोभूत्कालकालतः
कपालपाणिर्विश्वात्मा चचार भुवनत्रयम् 4.1.31.
सत्यलोकेपि वैकुंठे महेंद्रादि पुरीष्वपि
प्रतितीर्थं भ्रमन्नापि विमुक्तो ब्रह्महत्यया
अनेनैवानुमानेन महिमा त्ववगम्यताम्
संति तीर्थान्यनेकानि बहून्यायतनानि च
तावद्गर्जंति पापानि ब्रहत्यादिकान्यलम्
प्रमथैः सेव्यमानोऽयं त्रिलोकीं विचरन्हरः
अथायांतं महाकालं त्रिनेत्रं सर्पकुंडलम्
पपात दंडवद्भूमौ दृष्ट्वा तं गरुडध्वजः
निपेतुः प्रणिपत्यैनं प्रणतः कमलापतिः
क्षीरोदमथनो तां प्राह पद्मालयां हरिः 4.1.31.
धन्योऽहं देवि सुश्रोणि यत्पश्यावो जगत्पतिम्
अनादिः शरणः शांतः परः षड्विंशसंमितः
सर्वभूतांतरात्माऽयं सर्वेषां सर्वदः सदा
धिया पश्यंति हृदये सोयमद्य समीक्ष्यताम्
यं दृष्ट्वा न पुनर्जन्म लभ्यते मानवैर्भुवि
सोयमायाति भगवांस्त्र्यंबकः शशिभूषणः
धिग्धिक्पदं तु देवानां परं दृष्ट्वाऽत्र शंकरम्
देवत्वादशुभं किंचिद्देवलोके न विद्यते
एवमुक्त्वा हृषीकेशः संप्रहृष्टतनूरुहः 4.1.31.
किमिदं देवदेवेन सर्वज्ञेन त्वया विभो
क्रीडेयं तव देवेश त्रिलोचन महामते
किमर्थं भगवत्र्छंभो भिक्षां चरसि शक्तिप
एवमुक्तस्ततः शंभुर्विष्णुमेतदुदाहरत्
तदघप्रतिघं विष्णो चराम्येतद्व्रतं शुभम्
स्मित्वा किंचिन्नतशिराः पुनरेवं व्यजिज्ञपत्