या मे मुक्तिपुरी काशी सर्वाभ्योपि गरीयसी
तत्र ये पापकर्तारस्तेषां शास्ता त्वमेव हि
एतान्वरान्प्रगृह्याऽथ तत्क्षणात्कालभैरवः
यदंगमपराध्नोति कार्यं तस्यैव शासनम्
यज्ञमूर्तिधरो विष्णुस्ततस्तुष्टाव शंकरम् 4.1.31.
आश्वास्य तौ महादेवः प्रीतः प्रणतवत्सलः
मान्योऽध्वरोसौ भवता तथा शतधृतिस्त्वयम्
ब्रह्महत्यापनोदाय व्रतं लोकाय दर्शयन् इत्युक्त्वांऽतर्हितो देवस्तेजोरूपस्तदा शिवः
उत्पाद्य कन्यामेकां तु ब्रह्महत्येति विश्रुताम्
दंष्टाकरालवदनां ललज्जिह्वातिभीषणाम्
कर्त्रीं कर्परहस्ताग्रां स्फुरत्पिंगोग्रतारकाम्
यावद्वाराणसीं दिव्यां पुरीमेष गमिष्यति
सर्वत्र ते प्रवेशोस्ति त्यक्त्वा वाराणसीं पुरीम्
तत्सान्निध्याद्भैरवोपि कालोभूत्कालकालतः
कपालपाणिर्विश्वात्मा चचार भुवनत्रयम् 4.1.31.
सत्यलोकेपि वैकुंठे महेंद्रादि पुरीष्वपि
प्रतितीर्थं भ्रमन्नापि विमुक्तो ब्रह्महत्यया
अनेनैवानुमानेन महिमा त्ववगम्यताम्
संति तीर्थान्यनेकानि बहून्यायतनानि च
तावद्गर्जंति पापानि ब्रहत्यादिकान्यलम्
प्रमथैः सेव्यमानोऽयं त्रिलोकीं विचरन्हरः
अथायांतं महाकालं त्रिनेत्रं सर्पकुंडलम्
पपात दंडवद्भूमौ दृष्ट्वा तं गरुडध्वजः
निपेतुः प्रणिपत्यैनं प्रणतः कमलापतिः
क्षीरोदमथनो तां प्राह पद्मालयां हरिः 4.1.31.
धन्योऽहं देवि सुश्रोणि यत्पश्यावो जगत्पतिम्
अनादिः शरणः शांतः परः षड्विंशसंमितः
सर्वभूतांतरात्माऽयं सर्वेषां सर्वदः सदा
धिया पश्यंति हृदये सोयमद्य समीक्ष्यताम्
यं दृष्ट्वा न पुनर्जन्म लभ्यते मानवैर्भुवि