तस्यैवं ब्रुवतो धातुः क्रतुर्नारायणांशजः
अविज्ञाय परं तत्त्वं किमेतत्प्रतिपाद्यते
अहं कर्ता हि लोकानां यज्ञो नारायणः परः
अहमेव परं ज्योतिरहमेव परा गतिः
एवं विप्र कृतौ मोहात्परस्परजयैषिणौ 4.1.31.
यूयमेव न संदेहः किं तत्त्वं प्रतितिष्ठत
श्रुतय ऊचुः यदि मान्या वयं देवौ सृष्टिस्थितिकरौ विभू
श्रुत्युक्तमिदमाकर्ण्य प्रोचतुस्तौ श्रुतीः प्रति
ऋगुवाच यदंतःस्थानि भूतानि यतः सर्वं प्रवर्तते
येन प्रमाणं हि वयं स एकः सर्वदृक्छिवः
यद्भासा भासते विश्वं स एकस्त्र्यंबकः परः
तमाहुरेकं कैवल्यं शंकरं दुःखतस्करम्
श्रुतीरितं निशम्येत्थं तावतीव विमोहितौ
कथं प्रमथनाथोसौ रममाणो निरंतरम्
विटंकवेशो जटिलो वृषगोव्यालभूषणः 4.1.31.
तदुदीरितमाकर्ण्य प्रणवात्मा सनातनः
प्रणव उवाच कदाचिद्रमते रुद्रो लीलारूपधरो हरः
असौ हि भगवानीशः स्वयंज्योतिः सनातनः
इत्येवमुक्तेपि तदा मखमूर्तेरजस्य हि
प्रादुरासीत्ततो ज्योतिरुभयोरंतरे महत्
ज्योतिर्मंडलमध्यस्थो ददृशे पुरुषाकृतिः
आवयोरंतरं कोसौ बिभृयात्पुरुषाकृतिम्
स्रष्टा क्षणेन च महान्पुरुषो नीललोहितः
हिरण्यगर्भस्तं प्राह जाने त्वां चंद्रशेखरम्
रोदनाद्रुद्रनामापि योजितोसि मया पुरा 4.1.31.
अथेश्वरः पद्मयोनेः श्रुत्वा गर्ववतीं गिरम्
प्राह पंकजजन्मासौ शास्यस्ते कालभैरव
विश्वं भर्तुं समर्थोऽसि भरणाद्भैरवः स्मृतः
आमर्दयिष्यति भवांस्तुष्टो दुष्टात्मनो यतः
यतः पापानि भक्तानां भक्षयिष्यति तत्क्षणात्