प्रादुर्भावं भैरवस्य महापातकनाशनम्
पाणिभ्यां परितः प्रपीड्य सुदृढं निश्चोत्य निश्चोत्य च ब्रह्मांडं सकलं पचेलिमरसालोच्चैः फलाभं मुहुः
कुंभयोने न वेत्त्येव महिमानं महेशितुः
न चित्रमत्र भूदेव भवमाया दुरत्यया
वेदयेद्यदिचात्मानं स एव परमेश्वरः 4.1.31.
स सर्वगोपि नेक्ष्येत स्वात्मारामो महेश्वरः
पुरा पितामहं विप्र मेरुशृंगे महर्षयः
समा यया महेशस्य मोहितो लोकसंभवः
जगद्योनिरहं धाता स्वयंभूरेक ईश्वरः
प्रवर्तको हि जगतामहमेको निवर्तकः
तस्यैवं ब्रुवतो धातुः क्रतुर्नारायणांशजः
अविज्ञाय परं तत्त्वं किमेतत्प्रतिपाद्यते
अहं कर्ता हि लोकानां यज्ञो नारायणः परः
अहमेव परं ज्योतिरहमेव परा गतिः
एवं विप्र कृतौ मोहात्परस्परजयैषिणौ 4.1.31.
यूयमेव न संदेहः किं तत्त्वं प्रतितिष्ठत
श्रुतय ऊचुः यदि मान्या वयं देवौ सृष्टिस्थितिकरौ विभू
श्रुत्युक्तमिदमाकर्ण्य प्रोचतुस्तौ श्रुतीः प्रति
ऋगुवाच यदंतःस्थानि भूतानि यतः सर्वं प्रवर्तते
येन प्रमाणं हि वयं स एकः सर्वदृक्छिवः
यद्भासा भासते विश्वं स एकस्त्र्यंबकः परः
तमाहुरेकं कैवल्यं शंकरं दुःखतस्करम्
श्रुतीरितं निशम्येत्थं तावतीव विमोहितौ
कथं प्रमथनाथोसौ रममाणो निरंतरम्
विटंकवेशो जटिलो वृषगोव्यालभूषणः 4.1.31.
तदुदीरितमाकर्ण्य प्रणवात्मा सनातनः
प्रणव उवाच कदाचिद्रमते रुद्रो लीलारूपधरो हरः
असौ हि भगवानीशः स्वयंज्योतिः सनातनः
इत्येवमुक्तेपि तदा मखमूर्तेरजस्य हि
प्रादुरासीत्ततो ज्योतिरुभयोरंतरे महत्