अनेन तपसा वत्स त्वयाऽऽप्यं किमनेनसा
अनेन वयसा बाल खेलनीयं त्वयाऽनिशम्
ततः कौमारमासाद्य वयोऽभिध्यानशीलिना
वयोथ चतुरं प्राप्य योषास्रक्चंदनादिकान् 4.1.20.
उत्पाद्याथ बहून्पुत्रान्गुणिनो धर्मवत्सलान्
इदानीमेव तपसि बाल्ये वयसि कः श्रमः
विपक्षपरिभूतेन हृतमानेन केनचित्
हृतमानेन तप्तव्यं निशम्येति वचो ध्रुवः
जनयित्रीमनाभाष्य भूतभीतिं विहाय च
सापि भूतावली भीतिंबहुभीषणभूषणा
परितः परिवेषाभं सूर्यस्योच्चैः स्फुरत्प्रभम्
भूतावली तमालोक्य स्फुरच्चक्रसुदर्शनम्
अतीव निष्कंपहृदं गोविदार्पितचेतसम्
सापि प्रत्युतभीतातं ध्रुवं ध्रुवविनिश्चयम् 4.1.20.
गर्जत्कादंबिनीजालं व्योम्नि वै व्याकुलं यथा
अथ जंभारिणा सार्धं भीताः सर्वे दिवौकसः
नत्वा विज्ञापयामासुः परिष्टुत्या पितामहम्
तपता तापिताः सर्वे त्रिलोकी तलवासिनः
सम्यक्संविद्महे तात धुवस्य न मनीषितम्
इति विज्ञापितो देवैर्विहस्य चतुराननः
व्रजंतु विज्वराः सर्वे न स वः पदमिच्छति
न तस्माद्भगवद्भक्ताद्भेतव्यं केनचित्क्वचित्
आराध्य विष्णुं देवेशं लब्ध्वा तस्मात्स्वकांक्षितम्
निशम्येति च गीर्वाणाः प्रणीतं ब्रह्मणो वचः 4.1.20.
अथ नारायणो देवस्तं दृष्ट्वा दृढमानसम्
श्रीविष्णुरुवाच प्रसन्नोस्मि महाभाग वरं वरय सुव्रत
वचोऽमृतं समाकर्ण्य पर्युन्मील्य विलोचने
प्रत्यग्रविकसन्नीलोत्पलानां निकुरंबकैः
लक्ष्मीदेवीकटाक्षोघैः कटाक्षितमिवाखिलम्
प्रोद्यत्कादंबिनीमध्य विद्युद्दामसमानरुक्