भल्लूकाकारसर्वांग उष्ट्रलंबशिरोधरः
तं व्याघ्रवदनः कश्चिद्व्यादाय विकटाननम्
रयात्तु मांसकं भुंजन्कश्चिद्विकटदंष्ट्रकः
अतितीक्ष्णैर्विषाणाग्रैस्तटानुच्चान्विदारयन् 4.1.20.
कश्चिद्धि पन्नगी भूय फटाटोपभयानकः
कश्चिच्च महिषाकारः क्षिपञ्शृंगाग्रतो गिरोन्
कश्चिद्दावानलालीढ खर्जूरद्रुमसन्निभम्
मौलिजैरभ्रसंघर्षं कुर्वन्दीर्घकृशोदरः
कृपाणपाणिर्भग्नास्यो वामहस्तकपालधृत्
विशाल सालमादाय कुर्वन्किल किलारवम्
तमः संकेतसदनं व्याघ्रं वै वदनं महत्
उलूकाकारतां धृत्वा फूत्कारैरतिदारुणैः
यक्षिणी काचिदानीय रुदंतं कस्यचिच्छिशुम्
पिपासिताद्य रुधिरं तेपि पास्याम्यहं धुव 4.1.20.
अनीय तृणदारूणि परिस्तीर्य समंततः
वेताली रूपमास्थाय भंक्त्वा काचित्तरून्गिरीन्
अन्या सुनीतिरूपेण तमभिप्रेक्ष्य दूरतः
उवाच च वचश्चाटु बहुमाया विनिर्मितम्
त्वदेकशरणां वत्स बत मृत्युर्जिघांसति
प्रतिग्रामं प्रतिपुरं प्रत्यध्वं प्रतिकाननम्
यदा प्रभृति रे बाल निरगात्तपसे भवान्
तैस्तैः सपत्नीदुर्वाक्यैर्दुनोपि त्वं यथार्भक
न निद्रामि न जागर्मि नाश्नामि न पिबाम्यहम्
निद्रादरिद्रनयना स्वप्नेपि न तवाननम् 4.1.20.
त्वदाननप्रतिनिधिर्विधुर्विधुरया मया
त्वदालापसमालापं कलयन्किलकाकलीम्
त्वदंगसंगमधुरो ध्रुवधूपितयामया
के देशाः काश्च सरितः के शैलास्त्वत्कृते ध्रुव
अध्रुवं सर्वमेवैतत्पश्यंत्यंधीकृतास्म्यहम्
मृदुलानि तवांगानि क्वेमानि क्व तपस्त्विदम्