देवेषु यो वसेन्नित्यं देवानां वसतिर्हि यः
विष्लृव्याप्तावयंधातुर्यत्रसार्थकतां गतः
सर्वेषां च हृषीकाणामीशनात्परमेश्वरः
न च्यवंतेपि यद्भक्ता महति प्रलये सति 4.1.20.
इदं चराचरं विश्वं यो बभार स्वलीलया
तस्येक्षणे समीक्षेते नान्यद्विप्णुपदादृते
नान्य शब्दग्रहौ तस्य जातौ शब्दग्रहावपि
गोविंदचरणार्थार्चां तत्प्रियंकर्मवै विना
निर्द्वंद्वचरणद्वंद्वं तन्मनो मनुते हरेः
चरणौ विष्णुशरणौ हित्वा नारायणांगणम्
वाणीप्रमाणी क्रियते गोविंदगुणवर्णने
नितांतकमलाकांत नामधेयसुधारसम्
श्रीमुकुंद पदद्वंद्व पद्मामोदप्रमोदितम्
त्वगिंद्रियं मधुरिपोः परिस्पृश्य पदद्वयम् 4.1.20.
शब्दादिविषयाधारं सारं दामोदरं परम्
लुप्तानि सर्वतेजांसि तत्तपस्तपनोदये
इंद्र चंद्राग्नि वरुण समीरण धनाधिपाः
वैमानिकास्तथाऽन्येपि वसुमुख्या दिवौकसः
यत्र यत्र ध्रुवः पादं मिनोति पृथिवीतले
अहो तदंगसंगीनि त्यक्त्वा जाड्यं जलान्यपि
यावंति विष्वक्तेजांसि सिद्धरूपगुणानि च
अहो निजगुणस्पर्शः सततं मातरिश्वना
व्योम्नापि शब्दगुणिना ध्रुवाराधनबुद्धिना
आराधितोऽनुदिवसं सभूतैरपि पंचभिः 4.1.20.
कौस्तुभोद्भासितहृदः पीतकौशेयवाससः
मरुत्वतातिमहती चिंताऽप्ता तत्तपोभयात्
समर्थस्त्वप्सरोवर्गो नियंतुं यमिनां यमान्
तपस्विनां तपो हंतुं द्वौ मत्साहाय्यकारिणौ
एक एव किलोपायो बाले मे प्रभविष्यति
बालत्वाद्भीषितो भूतैस्तपस्त्यक्ष्यत्यसौ ध्रुवम्