सांप्रतं नेक्ष्यते सोपि भृंगारुर्मणिमंडितः
क्व दाक्षिणात्यं तत्कांस्यं गौडी ताम्रघटी क्व सा
क्व सा पर्वतदेशीया चंद्रकांतशिलोद्भवा
किं बहूक्तेन कुलजे तुभ्यं कुप्याम्यहं वृथा
अनपत्योस्मि तेनाहं दुष्टेन कुलदूषिणा
अपुत्रत्वं वरं नृणां कुपुत्रात्कुलपांसनात् 4.1.13.
स्नात्वा नित्यविधिं कृत्वा तस्मिन्नेवाह्निकस्यचित्
श्रुत्वा तथा स वृत्तांतं प्राक्तनं स्वं विनिंद्य च
चिंतामवाप महतीं क्व यामि करवाणि किम्
देशांतरे ह्यस्ति धनः सद्विद्यः सुखमेधते
यायजूके कुले जन्म क्वक्व मे व्यसनं तथा
भिक्षितुं नाधिगच्छामि न मे परिचितः क्वचित्
सदाभ्युदिते भानौ प्रसूर्मे मृष्टभोजनम्
इति चिंतयतस्तस्य भानुरस्ताचलं गतः
महोपहारानादाय नगराद्बहिरभ्यगात्
पक्वान्नगंधमाघ्राय क्षुधितः स तमन्वगात् 4.1.13.
पलायमानो निहतः क्षणात्पंचत्वमागतः
कुलाचारप्रतीपोयं पित्रोर्वाक्यपराङ्मुखः 4.1.13.
कलिंगराजोभविताऽधुनाविधुतकल्मषः 4.1.13.
स्वार्थदीपदशोद्योत लिंगमौलि तमोहरः 4.1.13.
तावत्तताप स तपस्त्वगस्थिपरिशेषितम् 4.1.13.
क्रूरदृग्वीक्षते यावत्पुनःपुनरिदं वदन् 4.1.13.
देवेन दत्ता ये तुभ्यं वराः संतु तथैव ते 4.1.13.
पुर्यां यक्षेश्वराणां ते स्वरूपमिति वर्णितम्
रम्यं मधुवनं प्राप यमुनायास्तटे महत
आद्यं भगवतः स्थानं तत्पुण्यं हरिमेधसः
जपन्स वासुदेवाख्यं परंब्रह्म निरामयम्
हरिर्हरित्सु सर्वासु हरिर्हरिमरीचिषु
जले शालूरकूर्मादि रूपेण भगवान्हरिः
अनंतरूपः पाताले गगनेऽनंतसंज्ञकः