न तत्याज च तद्धर्मं दुर्बोधो व्यसनी यतः
सपारदारैर्व्यसनैरेभिः कोत्र न खंडितः
अर्पयेद्द्यूतकाराणां सकुप्यं वसनादिकम्
स्वपंत्यास्त्वेकदाऽऽदाय दुरोदरिकरेऽर्पयत्
दीक्षितेन परिज्ञाता दैवाद्द्यूतकृतः करे पृष्टस्तेनाथ निर्बंधादसकृत्प्रत्युवाच किम्
ममाक्षिपसि विप्रोच्चैः किं मया चौर्य कर्मणा 4.1.13.
मम मातुर्हि पूर्वे द्युर्जित्वानीतो हि शाटकः
अन्येषां द्यूतकर्तृणां भूरि तेनार्पितं वसु
भाजनानि विचित्राणि कांस्य ताम्रमयानि च
न तेन सदृशः कश्चिदाक्षिको भूमिमंडले
कथं नाज्ञायि तनयो ऽविनयानयकोविदः
प्रावृत्य वाससा मौलिं प्राविशन्निजमंदिरम्
दीक्षितायिनि कुत्रासि क्व ते गुणनिधिः सुतः
अंगोद्वर्तन काले या त्वया मेंऽगुलितो हृता
इति श्रुत्वाथ तद्वाक्यं भीता सा दीक्षितायिनी
व्यग्रास्मि देवपूजार्थमुपहारादि कर्मणि 4.1.13.
इदानीमेव पक्वान्नकरणव्यग्रया मया
दीक्षित उवाच हंहो सत्पुत्रजननि नित्यं सत्यप्रभाषिणि
तदातदेति त्वं ब्रूया नाथेदानीं स निर्गतः
कुतस्त्वच्छाटकः पत्नि मांजिष्ठो यो मयाऽर्पितः
सांप्रतं नेक्ष्यते सोपि भृंगारुर्मणिमंडितः
क्व दाक्षिणात्यं तत्कांस्यं गौडी ताम्रघटी क्व सा
क्व सा पर्वतदेशीया चंद्रकांतशिलोद्भवा
किं बहूक्तेन कुलजे तुभ्यं कुप्याम्यहं वृथा
अनपत्योस्मि तेनाहं दुष्टेन कुलदूषिणा
अपुत्रत्वं वरं नृणां कुपुत्रात्कुलपांसनात् 4.1.13.
स्नात्वा नित्यविधिं कृत्वा तस्मिन्नेवाह्निकस्यचित्
श्रुत्वा तथा स वृत्तांतं प्राक्तनं स्वं विनिंद्य च
चिंतामवाप महतीं क्व यामि करवाणि किम्
देशांतरे ह्यस्ति धनः सद्विद्यः सुखमेधते