ऊनविंशतिकोऽसि त्वमेषा षोडशवार्षिकी
एतां संवृणु सद्वृत्तां पितृभक्तियुता भव
ततोऽपत्रपसे किं न त्यज दुर्वृत्ततां शिशो
तेभ्योपि न बिभेषि त्वं शुद्धोस्युभय वंशतः
गृहेपि शिष्यान्पश्यैतान्पितुस्ते विनयोचितान्
श्रद्धां विहाय ते ताते वृत्तिलोपं करिष्यति 4.1.13.
अनंतरं हसिष्यंति युक्तं दीक्षिततास्त्विति
मातुश्चरित्रं तनयो धत्ते दुर्भाषणैरिति
तदंघ्रिलीनमनसो मम साक्षी महेश्वरः
अहो बलीयान्सविधिर्येन जाता भवानिति
न तत्याज च तद्धर्मं दुर्बोधो व्यसनी यतः
सपारदारैर्व्यसनैरेभिः कोत्र न खंडितः
अर्पयेद्द्यूतकाराणां सकुप्यं वसनादिकम्
स्वपंत्यास्त्वेकदाऽऽदाय दुरोदरिकरेऽर्पयत्
दीक्षितेन परिज्ञाता दैवाद्द्यूतकृतः करे पृष्टस्तेनाथ निर्बंधादसकृत्प्रत्युवाच किम्
ममाक्षिपसि विप्रोच्चैः किं मया चौर्य कर्मणा 4.1.13.
मम मातुर्हि पूर्वे द्युर्जित्वानीतो हि शाटकः
अन्येषां द्यूतकर्तृणां भूरि तेनार्पितं वसु
भाजनानि विचित्राणि कांस्य ताम्रमयानि च
न तेन सदृशः कश्चिदाक्षिको भूमिमंडले
कथं नाज्ञायि तनयो ऽविनयानयकोविदः
प्रावृत्य वाससा मौलिं प्राविशन्निजमंदिरम्
दीक्षितायिनि कुत्रासि क्व ते गुणनिधिः सुतः
अंगोद्वर्तन काले या त्वया मेंऽगुलितो हृता
इति श्रुत्वाथ तद्वाक्यं भीता सा दीक्षितायिनी
व्यग्रास्मि देवपूजार्थमुपहारादि कर्मणि 4.1.13.
इदानीमेव पक्वान्नकरणव्यग्रया मया
दीक्षित उवाच हंहो सत्पुत्रजननि नित्यं सत्यप्रभाषिणि
तदातदेति त्वं ब्रूया नाथेदानीं स निर्गतः
कुतस्त्वच्छाटकः पत्नि मांजिष्ठो यो मयाऽर्पितः