इत्युक्तवति देवेश स्तस्मिन्पूतात्मनि प्रभुः
सर्वगो मम रूपेण सर्वतत्त्वावबोधकः
तव लिंगमिदं दिव्यं ये द्रक्ष्यंतीह मानवाः
पवमानेश्वरं लिंगं मध्ये जन्मसकृन्नरः
सुगंधचंदनैः पुष्पैर्मम लोके महीयते
पावमानं समाराध्य पूतो भवति तत्क्षणात् 4.1.13.
गणावूचतुः तस्याः प्राच्यां कुबेरस्य श्रीमत्येषालकापुरी
शंभोः सखित्वमापेदे नाथोस्या भक्तियोगतः
यया सखित्वमापन्नो देवदेवस्यधूर्जटेः
इति श्रोतुं मम मनः श्रुतिगोचरतां गतम्
गणावूचतुः शिवशर्मन्महाप्राज्ञ परिशुद्धेंद्रियेश्वर
सुहृदि प्रेमसंपन्ने त्वय्यनुद्यं न किंचन
आसीत्कांपिल्यनगरे सोमयाजिकुलोद्भवः
वेदवेदांगवेदार्थान्वेदोक्ताचारचंचुरः
अग्निशुश्रूषणरतो वेदाध्ययनतत्परः
कृतोपनयनः सोथ विद्यां जग्राह भूरिशः 4.1.13.
आदायादाय बहुशो धनं मातुः सकाशतः
संत्यक्त ब्राह्मणाचारः संध्यास्नानपराङ्मुखः
नटपाखंडिभंडैश्च बद्धप्रेमपरंपरः
प्रेरितोपि जनन्या स न याति पितुरंतिकम्
यदा यदैव तां पृच्छेदयेगुणनिधिः सुतः
तदा तदेति सा ब्रूयादिदानीं स बहिर्गतः
अधीत्याध्ययनार्थं स द्वित्रैर्मित्रैः समं ययौ
न तत्कर्म च तद्वृत्तं किंचिद्वेत्ति स दीक्षितः
गृह्योक्तेन विधानेन पाणिग्राहमकारयत्
शास्ति स्नेहार्द्रहृदया क्रोधनस्ते पितेत्यलम् 4.1.13.
आच्छादयामि ते नित्यं पितुरग्रे कुचेष्टितम्
ब्राह्मणानां धनं पुत्र सद्विद्या साधुसंगमः
इति रूढिमिह प्राप्तास्तव पूर्वपितामहाः
सद्विद्या सुमनो धेहि ब्राह्मणाचारमाचर