तपोभिर्बहुभिस्सोयं शोणाद्रीशमतोषयत्
प्रख्याताश्च प्रकाशंते दुर्बोधास्त्वल्पचेतसाम् ।। 1.3.1.6.
कथमेकत्र सांनिध्यं लभेरन्भुवि मानवाः
अंतर्निगूढतेजास्त्वं गत्वा यस्सकलैः सुरैः
अहं च शंभुमभ्यर्च्य तपसारुणपर्वतम्
विश्वकर्मकृतं दिव्यं विमानं विविधोत्सवम्
धर्मशास्त्राणि विविधान्यवापुर्मुनिपुंगवाः
मया च शंभुमभ्यर्च्य कृताग्न्याहुतिसंभवाः
हतशत्रुगणैभूपैर्लब्धराज्यैः पुरा नृपैः
इदमनुभववैभवं विचित्रं दुरितहरं शिवलिंगमद्रिरूपम्
अवनतजनरक्षणोचितस्य स्मरणनिराकृतविश्वकल्मषस्य
प्राणिनामपि सर्वेषामुपशांतिं कथं गतः
तीर्थानामुद्भवः पुण्यात्कथं चारुणपर्वतात्
द्वापरं हाटकगिरिः कलौ मरकताचलः
बहुयोजनपर्यंतं कृते वह्निमये स्थिते
शनैः शांतोरुणाद्रीशः श्रीमानभ्यर्थितः सुरैः
अथ गौरी मुनिं प्राह कथं शांतोऽरुणाचलः
इति तस्या वचः श्रुत्वा गौतमस्त्वभ्यभाषत
पुरा सुराः स्तुतिं चक्रुरभ्यर्च्य क्रतुसंभवैः
भगवन्नरुणाद्रीश सर्वलोकहितावह
असौ यस्ताम्रो अरुण उत बभ्रुः सुमंगलः 1.3.1.7.
नमस्ताम्रायारुणाय शिवाय परमात्मने
त्वद्रूपमखिलं देव जगदेतच्चराचरम्
वर्षतां च पयोदानां निर्झराणां च भूयसाम्
अग्नेरापः समुद्भूतास्त्वत्तो हि परमात्मनः
शीतो भव महादेव शोणाचल कृपानिधे
इति स्तुतः सुरैः सर्वेरानतैर्भक्तवत्सलः
प्रावर्त्तत पुनर्नद्यो निर्झराश्च बहूदकाः
तथापि तरुणार्कोद्यत्कालाग्निशतकोटिभिः
विसृज्य विश्वसलिलं नदीश्च रसविक्षरैः