वाराणस्यां महाभागो वर्षाणामयुतं शतम्
यस्य दर्शनमात्रेण पूतात्मा जायते नरः
उवाच च प्रसन्नात्मा करुणामृतसागरः
अनेन तपसोग्रेण लिंगस्याराधनेन च
देवदेवमहादेव देवानामभयप्रद
वेदास्त्वां न च विंदंति किमात्मक इति प्रभो 4.1.13.
ब्रह्मविष्ण्वोपि गिरां गोचरो न च वाक्पतेः
प्रसह्य प्रमिमीतेश भक्तिर्मांस्तुतिकर्मणि
विश्वं त्वं नास्ति वै भेदस्त्वमेकः सर्वगो यतः
सर्गात्पुरा भवानेको रूपनाम विवर्जितः
यदैकलो न शक्नोषि रंतुं स्वैरचर प्रभो
त्वमेको द्वित्वमापन्नः शिवशक्तिप्रभेदतः
उभाभ्यां शिवशक्तिभ्या युवाभ्यां निजलीलया
ज्ञानशक्तिर्भवानीश इच्छाशक्तिरुमा स्मृता
दक्षिणांगं तव विधिर्वामांगं तव चाच्युतः
त्वत्स्वेदादंबुनिधयस्तव श्रोत्रं समीरणः 4.1.13.
राजन्यवर्यास्ते बाहु वैश्या ऊरुसमुद्भवाः
त्वं पुं प्रकृतिरूपेण ब्रह्मांडमसृजः पुरा
अतस्त्वत्तो न मन्येऽहं किंचिद्भिन्नं जगन्मय
नमस्तुभ्यं नमस्तुभ्यं नमस्तुऽभ्यं नमोनमः
इत्युक्तवति देवेश स्तस्मिन्पूतात्मनि प्रभुः
सर्वगो मम रूपेण सर्वतत्त्वावबोधकः
तव लिंगमिदं दिव्यं ये द्रक्ष्यंतीह मानवाः
पवमानेश्वरं लिंगं मध्ये जन्मसकृन्नरः
सुगंधचंदनैः पुष्पैर्मम लोके महीयते
पावमानं समाराध्य पूतो भवति तत्क्षणात् 4.1.13.
गणावूचतुः तस्याः प्राच्यां कुबेरस्य श्रीमत्येषालकापुरी
शंभोः सखित्वमापेदे नाथोस्या भक्तियोगतः
यया सखित्वमापन्नो देवदेवस्यधूर्जटेः
इति श्रोतुं मम मनः श्रुतिगोचरतां गतम्