पापिनां यानि पापानि प्रसह्य क्षालितान्यहो
प्रयागस्य गुणान्ज्ञात्वा शिवशर्मा द्विजः सुधीः
प्रवेश एव संवीक्ष्य स देहलिविनायकम् 4.1.7.
निवेद्यमोदकान्पंच वंचयंतं निजं जनम्
आगत्य दृष्ट्वा मणिकर्णिकायामुदग्वहां स्वर्गतरंगिणीं सः
सचैलमाप्लुत्य जलेऽमलेऽमलेऽविलंबमालंबित शुद्धबुद्धिः
विधाय च द्राक्स हि पंचतीर्थिकां विश्वेशमाराध्य ततो यथास्वम्
न स्वः पुरी सा त्वनया पुरासमं समंजसापि प्रतिसाम्यमावहेत
पयोपि यत्रत्यमचिंत्यवैभवं दिविस्थिता साधुसुधाप्यतोमुधा
अनामयाश्चिंतनया न येशितुर्जनामनाग्यत्र विना पिनाकिना
न वर्ण्यते कैः किल काशिकेयं जंतोः स्थितस्यात्र यतोंतकाले
संसारिचिंतामणिरत्र यस्मात्तं तारकं सज्जनकर्णिकायाम्
मुक्तिलक्ष्मी महापीठ मणिस्तच्चरणाब्जयोः 4.1.7.
जरायुजांडजोद्भिज्जाः स्वेदजाह्यत्र वासिनः
मम जन्म वृथाजातं दुर्वृत्तस्य जडात्मनः
पुनःपुनश्च तत्क्षेत्रमतिथीकृत्यनेत्रयोः
सप्तानां च पुरीणां हि धुरी णामवयाम्यहम्
तथापि न चतस्रोन्या मया दृग्गोचरीकृताः
तीर्थयात्रां प्रतिदिनं कुर्वन्नूनं सवत्सरम्
नाना प्रमाणैः प्रवणो निरगात्स तथाप्यहो
किं कुर्वंति हि शास्त्राणि सप्रमाणानि सुंदरि
कः समुच्चलितं चेतस्तोयंवा संप्रतीपयेत्
शिवशर्मा व्रजन्सोथ देशाद्देशांतरं क्रमात् 4.1.7.
कल्पेकल्पेखिलंविश्वं कालयेद्यः स्वलीलया
पापादवंती सा विश्वमवंतीति निगद्यते
विपन्नो यत्र वै जंतुः प्राप्यापि शवतां स्फुटम्
यमदूता न यस्यां हि प्रविशंति कदाचन
हाटकेशो महाकालस्तारके शस्तथैव च
ज्योतिः सिद्धवटे ज्योतिस्ते पश्यंतीह ये द्विजाः
महाकालस्य तल्लिंगं यैर्दृष्टं कष्टिभिः क्वचित