दिगंगनाः प्रार्थयंति यत्प्रयागानिलानपि
अश्वमेधादियागाश्च प्रयागस्य रजः पुनः
मज्जागतानि पापानि बहुजन्मार्जितान्यपि 4.1.7.
धर्मतीर्थमिदं सम्यगर्थतीर्थमिदं परम्
ब्रह्महत्यादि पापानि तावद्गर्जंति देहिषु
तद्विष्णोः परमं पदं सदा पश्यंति सूरयः
सरस्वती रजो रूपा तमोरूपा कलिंदजा
इयं वेणीहि निःश्रेणी ब्रह्मणो वर्त्मयास्यतः
काशीति काचिदबला भुवनेषु रूढा लोलार्क केशवविलोलविलोचना
अगस्तिरुवाच तीर्थराजप्रयागस्य तीर्थैः संसेवितस्य च
पापिनां यानि पापानि प्रसह्य क्षालितान्यहो
प्रयागस्य गुणान्ज्ञात्वा शिवशर्मा द्विजः सुधीः
प्रवेश एव संवीक्ष्य स देहलिविनायकम् 4.1.7.
निवेद्यमोदकान्पंच वंचयंतं निजं जनम्
आगत्य दृष्ट्वा मणिकर्णिकायामुदग्वहां स्वर्गतरंगिणीं सः
सचैलमाप्लुत्य जलेऽमलेऽमलेऽविलंबमालंबित शुद्धबुद्धिः
विधाय च द्राक्स हि पंचतीर्थिकां विश्वेशमाराध्य ततो यथास्वम्
न स्वः पुरी सा त्वनया पुरासमं समंजसापि प्रतिसाम्यमावहेत
पयोपि यत्रत्यमचिंत्यवैभवं दिविस्थिता साधुसुधाप्यतोमुधा
अनामयाश्चिंतनया न येशितुर्जनामनाग्यत्र विना पिनाकिना
न वर्ण्यते कैः किल काशिकेयं जंतोः स्थितस्यात्र यतोंतकाले
संसारिचिंतामणिरत्र यस्मात्तं तारकं सज्जनकर्णिकायाम्
मुक्तिलक्ष्मी महापीठ मणिस्तच्चरणाब्जयोः 4.1.7.
जरायुजांडजोद्भिज्जाः स्वेदजाह्यत्र वासिनः
मम जन्म वृथाजातं दुर्वृत्तस्य जडात्मनः
पुनःपुनश्च तत्क्षेत्रमतिथीकृत्यनेत्रयोः
सप्तानां च पुरीणां हि धुरी णामवयाम्यहम्
तथापि न चतस्रोन्या मया दृग्गोचरीकृताः
तीर्थयात्रां प्रतिदिनं कुर्वन्नूनं सवत्सरम्
नाना प्रमाणैः प्रवणो निरगात्स तथाप्यहो