यौवनं गत्वरं ज्ञात्वा जरां दृष्ट्वाश्रितां श्रुतिम्
पठतो मे गतः कालस्तथोपार्जयतो धनम्
न मया तोषितो विष्णुः सर्वपापहरो हरिः
तमस्तोमहरः सूर्यो नार्चि तो वै मया क्वचित् 4.1.7.
न प्रीणिता मया देवा यज्ञैः सर्वैः समृद्धिदाः
न मया तर्पिता विप्रा मृष्टान्नैर्मधुरै रसैः
बहुपुष्पफलोपेताः सुच्छायाः स्निग्धपल्लवाः
दुकूलैः स्वानुकूलैश्च चोलैः प्रत्यंगभूषणैः
द्विजाय नोर्वरा दत्ता यमलोकनिवारिणी
नालंकृता सवत्सा गौः पात्राय प्रतिपादिता
ऋणापनुत्तये मातुः कारितो न जलाशयः
छत्रोपानत्कुंडिकाश्च नाध्वगाय समर्पिताः
न च कन्याविवाहार्थं वसु क्वापि मयार्पितम्
न वाजपेयावभृथे स्नातो लोभवशादहम् 4.1.7.
न मया स्थापितं लिंगं कृत्वा देवालयं शुभम
विष्णोरायतनं नैव कृतं सर्वसमृद्धिदम्
न गौरी न महालक्ष्मीश्चित्रेपि परिलेखिते
सुसूक्ष्माणि विचित्राणि नोज्ज्वलान्यंबराण्यपि
न तिलाश्च घृतेनाक्ताः सुसमिद्धे हुताशने
श्रीसूक्तं पावमानी च ब्राह्मणो मंडलानि च
अश्वत्थ सेवा न कृता त्यक्त्वा चार्कं त्रयोदशीम्
शयनीयं न चोत्सृष्टं मृदुला च प्रतूलिका
अजाश्वमहिषी मेषी दासी कृष्णाजिनं तिलाः
पादाभ्यंगं दीपदानं प्रपादानं विशेषतः 4.1.7.
नित्यश्राद्धं भूतबलिं तथाऽतिथि समर्चनम्
न यमं यमदूतांश्च नयामीरपि यातनाः
कृच्छ्रचांद्रायणादीनि तथा नक्तव्रतानि च
गवाह्निकं च नोदत्तं कोकंडूतिर्न वै कृता
नार्थिनः प्रार्थितैरर्थैः कृतार्था हि मया कृताः
न वेदा न च शास्त्राणि नार्धो दारा न नो सुतः