घृतकंबलपूजाभिर्महास्नानपुरःसरम् 4.1.4.
इदं पातिव्रतं तेजो ब्रह्मतेजो भवान्परम् 4.1.4.
साधयिष्यामि वः कार्यं विसर्ज्येति दिवौकसः 4.1.4.
वेदव्यास उवाच इमं पतिव्रताध्यायं श्रुत्वा स्त्रीपुरुषोपिवा
अगस्तिरुवाच तस्य पुत्रो महातेजाः शिवशर्मेति विश्रुतः
अधीत्यवेदान्विधिवदर्थं विज्ञाय तत्त्वतः।. पठित्वा धर्मशास्त्राणि पुराणान्यधिगम्य च
अंगान्यभ्यस्य तर्कांश्च परिलोड्य समंततः
आयुर्वेदं विचार्यापि नाट्यवेदे कृतश्रमः
कलासु च कृताभ्यासो मन्त्रशास्त्रविचक्षणः
अर्थानुपार्ज्य धर्मेण भुक्त्वा भोगान्यदृच्छया
यौवनं गत्वरं ज्ञात्वा जरां दृष्ट्वाश्रितां श्रुतिम्
पठतो मे गतः कालस्तथोपार्जयतो धनम्
न मया तोषितो विष्णुः सर्वपापहरो हरिः
तमस्तोमहरः सूर्यो नार्चि तो वै मया क्वचित् 4.1.7.
न प्रीणिता मया देवा यज्ञैः सर्वैः समृद्धिदाः
न मया तर्पिता विप्रा मृष्टान्नैर्मधुरै रसैः
बहुपुष्पफलोपेताः सुच्छायाः स्निग्धपल्लवाः
दुकूलैः स्वानुकूलैश्च चोलैः प्रत्यंगभूषणैः
द्विजाय नोर्वरा दत्ता यमलोकनिवारिणी
नालंकृता सवत्सा गौः पात्राय प्रतिपादिता
ऋणापनुत्तये मातुः कारितो न जलाशयः
छत्रोपानत्कुंडिकाश्च नाध्वगाय समर्पिताः
न च कन्याविवाहार्थं वसु क्वापि मयार्पितम्
न वाजपेयावभृथे स्नातो लोभवशादहम् 4.1.7.
न मया स्थापितं लिंगं कृत्वा देवालयं शुभम
विष्णोरायतनं नैव कृतं सर्वसमृद्धिदम्
न गौरी न महालक्ष्मीश्चित्रेपि परिलेखिते
सुसूक्ष्माणि विचित्राणि नोज्ज्वलान्यंबराण्यपि
न तिलाश्च घृतेनाक्ताः सुसमिद्धे हुताशने
श्रीसूक्तं पावमानी च ब्राह्मणो मंडलानि च