धन्या सा जननी लोके धन्योसौ जनकः पुनः 4.1.4.
पितृवंश्यामातृवंश्याःपतिवंश्यास्त्रयस्त्रयः
शीलभंगेन दुर्वृत्ताः पातयंति कुलत्रयम्
पतिव्रतायाश्चरणो यत्र यत्र स्पृशेद्भुवम्
बिभ्यत्पतिव्रतास्पर्शं कुरुते भानुमानपि
आपः पतिव्रता स्पर्शमभिलष्यंति सर्वदा
गृहेगृहे न किं नार्यो रूपलावण्यगर्विताः
भार्या मूलं गृहस्थस्य भार्या मूलं सुखस्य च
परलोकस्त्वयं लोको जीयते भार्यया द्वयम्
गृहस्थः स हि विज्ञेयो यस्य गेहे पतिव्रता
यथा गंगाऽवगाहेन शरीरं पावनं भवेत् 4.1.4.
अनुयाति न भर्तारं यदि दैवात्कथंचन
तद्वैगुण्यादपिस्वर्गात्पतिः पतति नान्यथा
पत्यौ मृते च यायोषिद्वैधव्यं पालयेत्क्वचित्
विधवा कबरीबंधो भर्तृबंधाय जायते
एकाहारः सदा कार्यो न द्वितीयं कदाचन
मासोपवासं वा कुर्याच्चांद्रायणमथापि वा
यवान्नैर्वा फलाहारैः शाकाहारैः पयोव्रतैः
पर्यंकशायिनी नारी वि धवा पातयेत्पतिम्
न चांगोद्वर्तनं कार्यं स्त्रिया विधवया क्वचित्
तर्पणं प्रत्यहं कार्यं भर्तुः कुशतिलोदकैः 4.1.4.
विष्णोस्तु पूजनं कार्यं पति बुद्ध्या न चान्यथा
यद्यदिष्टतमं लोके यच्च पत्युः समीहितम्
वैशाखे कार्तिके माघे विशेषनियमांश्चरेत्
वैशाखे जलकुंभांश्च कार्तिके घृतदीपकाः
प्रपा कार्या च वैशाखे देवे देया गलंतिका
सकर्पूरं च तांबूलं पुष्पदानं तथैव च
पानानि च विचित्राणि द्राक्षा रंभा फलानि च
ऊर्जे यवान्नमश्नीयादेकान्नमथवा पुनः
कार्तिके वर्जयेत्तैलं कार्तिके वर्जये न्मधु