इदमेव व्रतं स्त्रीणामयमेवपरो वृषः 4.1.4.
क्लीबं वा दुरवस्थंवा व्याधितं वृद्धमेव वा
हृष्टाहृष्टेविषण्णास्या विषण्णास्ये प्रिये सदा
सर्पिर्लवणतैलादि क्षयेपि च पतिव्रता
तीर्थस्नानार्थिनी नारी पतिपादोदकं पिबेत्
व्रतोपवासनियमं पतिमुल्लंघ्य या चरेत्
उक्ता प्रत्युत्तरं दद्याद्या नारी क्रोधतत्परा
स्त्रीणां हि परमश्चैको नियमः समुदाहृतः
उच्चासनं न सेवेत न व्रजेत्परवेश्मसु
अपवादो न वक्तव्यः कलहं दूरतस्त्यजेत्
या भर्तारं परित्यज्य रहश्चरति दुर्मतिः 4.1.4.
ताडिता ताडितुं चेच्छेत्सा व्याघ्री वृषदंशिका
या भर्तारं परित्यज्य मिष्टमऽश्नाति केवलम्
या त्वं(हुं) कृत्याऽप्रियं ब्रूते मूका सा जायते खलु
दृष्टिं विलुप्य भर्तुर्या कंचिदन्यं समीक्षते
बाह्यादायांतमालोक्य त्वरिता च जलाशनैः
तथैव चाटुवचनैः खेदसंनोदनैः परैः
मितं ददाति हि पिता मितं भ्राता मितं सुतः
भर्ता देवो गुरुर्भर्ता धर्म तीर्थ व्रतानि च
जीवहीनो यथा देहः क्षणादशुचितां व्रजेत्
अमंगलेभ्यः सर्वेभ्यो विधवा त्यक्तमंगला 4.1.4.
विहाय मातरं चैकां सर्वमंगलवर्जिताम
कन्याविवाहसमये वाचयेयुरिति द्विजाः
भर्ता सदानुयातव्यो देहवच्छायया स्त्रिया
अनुव्रजति भर्तारं गृहात्पितृवनं मुदा
व्यालग्राही यथा व्यालं बलादुद्धरते बिलात
यमदूताः पलायंते सतीमालोक्य दूरतः ।। अपि दुष्कृतकर्माणं समुत्सृज्य च तत्पतिम्
न तथा बिभीमो वह्नेर्नतथा विद्युतो यथा
तपनस्तप्यतेत्यंतं दहनोपि च दह्यते
यावत्स्वलोमसंख्यास्ति तावत्कोट्ययुतानि च