अनलंकृतमात्मानं तव नो दर्शयेत्क्वचित् 4.1.4.
न च ते नाम गृह्णीयात्तवायुष्यविवृद्धये
आक्रुष्टापि न चाक्रोशेत्ताडितापि प्रसीदति
आहूता गृहकार्याणि त्यक्त्वा गच्छति सत्वरम्
न चिरं तिष्ठति द्वारि न द्वारमुपसेवते
पूजोपकरणं सर्वमनुक्ता साधयेत्स्वयम्
प्रतीक्षमाणावसरं यथाकालोचितं हि यत्
सेवते भर्त्तुरुच्छिष्टमिष्टमन्नं फलादिकम्
अविभज्य न चाश्नीयाद्देवपित्रतिथिष्वपि
संयतोपस्करादक्षा हृष्टा व्यय पराङ्मुखी
दूरतो वर्जयेदेषा समाजोत्सवदर्शनम् 4.1.4.
सुखसुप्तं सुखासीनं रममाणं यदृच्छया
स्त्रीधर्मिणी त्रिरात्रं तु स्वमुखं नैव दर्श येत्
सुस्नाता भर्तृवदनमीहतेन्यस्य न क्वचित्
हरिद्रां कुंकुमं चैव सिंदूर कज्जलं तथा
केशसंस्कारकबरी करकर्णादिभूषणम्
न रजक्या न हैतुक्या तथा श्रमणया न च
भर्तृविद्वेषिणीं नारीं नैषा संभाषते क्वचित्
नोलूखले न मुसले न वर्द्धन्यां दृषद्यपि
विना व्यवायसमयं प्रागल्भ्यं न क्वचिच्चरेत्
इदमेव व्रतं स्त्रीणामयमेवपरो वृषः 4.1.4.
क्लीबं वा दुरवस्थंवा व्याधितं वृद्धमेव वा
हृष्टाहृष्टेविषण्णास्या विषण्णास्ये प्रिये सदा
सर्पिर्लवणतैलादि क्षयेपि च पतिव्रता
तीर्थस्नानार्थिनी नारी पतिपादोदकं पिबेत्
व्रतोपवासनियमं पतिमुल्लंघ्य या चरेत्
उक्ता प्रत्युत्तरं दद्याद्या नारी क्रोधतत्परा
स्त्रीणां हि परमश्चैको नियमः समुदाहृतः
उच्चासनं न सेवेत न व्रजेत्परवेश्मसु
अपवादो न वक्तव्यः कलहं दूरतस्त्यजेत्