स्नात्वा तु मणिकर्णिक्यां प्रीणिता ब्राह्मणा धनैः
ततः काशीं समासाद्य तेन पुण्येन नोदिताः
अविमुक्ते कृतं कर्म यदल्पमपि मानवैः
अहो वैश्वेश्वरे क्षेत्रे मरणादपिनोभयम्
ब्राह्मणेभ्यः कुरुक्षेत्रे यैर्दत्तं वसु निर्मलम्
पितामहं समासाद्य गयायां यैः पितामहाः
न स्नानेन न दानेन न जपेन न पूजया
सोपस्कराणिवेश्मानिमु सलोलूखलादिभिः
ब्रह्मशालां कारयंति वेदमध्यापयंति च
पुराणानि च ये दद्युः पुस्तकानि ददत्यपि 4.1.2.
यज्ञार्थं च विवाहार्थं व्रतार्थं ब्राह्मणाय वै
आरोग्यशालां यः कुर्याद्वैद्यपोषणतत्परः
मुक्ती कुर्वंति तीर्थानि ये च दुष्टावरोधतः
विष्णोर्वाममवाशंभोर्ब्राह्मणा एव सुप्रियाः
ब्राह्मणाश्चैव गावश्च कुलमेकं द्विधाकृतम्
ब्राह्मणा जंगमं तीर्थं निर्मितं सार्वभौमिकम्
गावः पवित्रमतुलं गावो मंगलमुत्तमम्
शृंगाग्रे सर्वतीर्थानि खुराग्रे सर्व पर्वताः
दीयमानां च गां दृष्ट्वा नृत्यंति प्रपितामहाः
रोरूयंते च पापानि दारिद्र्यं व्याधिभिः सह 4.1.2.
गवां स्तुत्वा नमस्कृत्य कृत्वा चैव प्र दक्षिणाम्
या लक्ष्मीः सवर्भूतानां या देवेषु व्यवस्थिता
विष्णोर्वक्षसि या लक्ष्मीः स्वाहा चैव विभावसोः
गोमयं यमुना साक्षाद्गोमूत्रं नर्मदा शुभा
गवामंगेषु तिष्ठंति भुवनानि चतुर्दश
इति मंत्रं समुच्चार्य धेनूर्वाधेनुमेव वा
मया च विष्णुना सार्धं शिवेन च महर्षिभिः । विचार्य गोगुणान्नित्यं प्रार्थनेति विधीयते
गावो मे पुरतः संतु गावो मे संतु पृष्ठतः
नीराजयति योंगानि गवां पुच्छेन भाग्यवान्
गोभिर्विप्रश्च वेदैश्च सतीभिः सत्यवादिभिः 4.1.2.