नेह क्रोधो न मात्सर्यं लोभः कामोऽधृतिर्भयम्
ये ब्राह्मणा ब्रह्मरतास्तपोनिष्ठास्तपोधनाः
पातिव्रत्यरता नार्यो ये चान्ये ब्रह्मचारिणः
मातापित्रोरमी भक्ता अमी गोग्रहणे हताः
तीर्थे तपस्युपकृतौ सदाचारादिकर्मणि
गायत्री जाप्यनिरता अग्निहोत्र परायणाः
निस्पृहाः सोमपा ये वै द्विजपादोदपाश्च ये
प्रतिग्रहे समर्था हि ये प्रतिग्रहवर्जिताः
प्रयागे माघ मासो यैरुषः स्नातोऽमलात्मभिः
वाराणस्यां पांचनदे त्र्यहं स्नातास्तु कार्तिके 4.1.2.
स्नात्वा तु मणिकर्णिक्यां प्रीणिता ब्राह्मणा धनैः
ततः काशीं समासाद्य तेन पुण्येन नोदिताः
अविमुक्ते कृतं कर्म यदल्पमपि मानवैः
अहो वैश्वेश्वरे क्षेत्रे मरणादपिनोभयम्
ब्राह्मणेभ्यः कुरुक्षेत्रे यैर्दत्तं वसु निर्मलम्
पितामहं समासाद्य गयायां यैः पितामहाः
न स्नानेन न दानेन न जपेन न पूजया
सोपस्कराणिवेश्मानिमु सलोलूखलादिभिः
ब्रह्मशालां कारयंति वेदमध्यापयंति च
पुराणानि च ये दद्युः पुस्तकानि ददत्यपि 4.1.2.
यज्ञार्थं च विवाहार्थं व्रतार्थं ब्राह्मणाय वै
आरोग्यशालां यः कुर्याद्वैद्यपोषणतत्परः
मुक्ती कुर्वंति तीर्थानि ये च दुष्टावरोधतः
विष्णोर्वाममवाशंभोर्ब्राह्मणा एव सुप्रियाः
ब्राह्मणाश्चैव गावश्च कुलमेकं द्विधाकृतम्
ब्राह्मणा जंगमं तीर्थं निर्मितं सार्वभौमिकम्
गावः पवित्रमतुलं गावो मंगलमुत्तमम्
शृंगाग्रे सर्वतीर्थानि खुराग्रे सर्व पर्वताः
दीयमानां च गां दृष्ट्वा नृत्यंति प्रपितामहाः
रोरूयंते च पापानि दारिद्र्यं व्याधिभिः सह 4.1.2.