पाश्चात्या दक्षिणात्याश्च निद्रामुद्रितलोचनाः 4.1.2.
अहोनाहस्कराभावान्निशानैवाऽनिशाकरात्
ब्रह्मांडं किमकांडे वै लयमेष्यति तत्कथम्
स्वाहास्वधावषट्कारवर्जिते जगतीतले
सूर्योदयात्प्रवर्तंते यज्ञाद्याः सकलाः क्रियाः
चित्रगुप्तादयः सर्वे कालं जानंति सूर्यतः
तत्सूर्यस्य गतिस्तंभात्स्तंभितं भुवनत्रयम्
एकतस्तिमिरान्नैशादेकतस्तु दिवातपात्
इति व्याकुलिते लोके सुरासुरनरोरगे
ततः सर्वे समालोक्य ब्रह्माणं शरणं ययुः
नमो हिरण्यरूपाय ब्रह्मणे ब्रह्मरूपिणे 4.1.2.
यन्न देवा विजानंति मनो यत्रापि कुंठितम्
योगिनो यं हृदाकाशे प्रणिधानेन निश्चलाः
कालात्पराय कालाय स्वेच्छयापुरुषाय च
विष्णवे सत्त्वरूपाय रजोरूपाय वेधसे
नमो बुद्धिस्वरूपाय त्रिधाहंकृतये नमः
नमो ब्रह्मांडरूपाय तदंतर्वर्तिने नमः
अनित्यनित्यरूपाय सदसत्पतये नमः
तव निःश्वसितं वेदास्तव स्वे दोखिलं जगत्
नाभ्या आसीदंतरिक्षं लोमानि च वनस्पतिः 4.1.2.
त्वमेव सर्वं त्वयि देव सर्वं स्तोता स्तुतिः स्तव्य इह त्वमेव
इति स्तुत्वा विधिं देवा निपेतुर्दंडवत्क्षितौ
उत्तिष्ठत प्रसन्नोस्मि वृणुध्वं वरमुत्तमम्
यः स्तोष्यत्यनया स्तुत्या श्रद्धावान्प्रत्यहं शुचिः
दास्यामः सकलान्कामान्पुत्रान्पौत्रान्पशून्वसु
ऐहिकामुष्मिकान्भोगानपवर्गं तथाऽक्षयम्
तस्मात्सर्वप्रयत्नेन पठितव्यः स्तवोत्तमः
पुनः प्रोवाच तान्वेधाः प्रणिपत्योत्थितान्सुरान्
एते वेदा मूर्तिधरा इमा विद्यास्तथाखिलाः
ब्रह्मचर्यमिदं चैषा करुणा भारतीत्वियम् 4.1.2.