न शक्यते हि संपूर्णं वक्तुं वर्षशतैरपि
कार्तिकस्य तु माहात्म्यं यावद्वर्षशतं वदन्
पुत्रार्थी च धनार्थी च राज्यार्थी स्वफलं लभेत् 2.4.36.
भूयोभूयो नमस्कृत्य ययौ यादृच्छिको मुनिः
कथितं शंकरेणाऽपि पुत्राय हितकाम्यया
कृष्णेन सत्यभामायै कार्तिकस्य च वैभवः
ऋषयो वालखिल्येभ्यः श्रुत्वा माहात्म्यमुत्तमम्
अधीत्य सर्वशास्त्राणि पयःसारमिवोद्धृतम्
विरराम ततस्ते तु पूजां चक्रुस्तदास्य च
ते पुनः स्वाश्रमं गत्वा हृष्टास्ते परमर्षयः
अनेन विधिना ये वै कुर्वंति कार्तिकव्रतम्
व्यास उवाच उदियायोदयगिरौ शुचिप्रसृमरैः करैः
संवर्धयन्सतां धर्मान्त्यक्कुर्वंस्तामसीं स्थितिम्
हव्यं कव्यं भूतबलिं देवादीनां प्रवर्तयन्
असतां हृदि वक्त्रेषु निर्दिशंस्तमसः स्थितिम्
यस्मिन्नभ्युदिते जातः सम्यक्पुण्यजनोदयः
सायमस्तमितः प्रातः कथं जीवेद्रविः पुनः
यामं भुक्त्वा तथाग्नेयीं ज्वलंतीं विरहादिव
तांबूलीरागरक्तौष्ठीं द्राक्षास्तबकसुस्तनीम्
मलयानिल निःश्वासां क्षीरोदकवरांबराम्
कावेरीगौतमीजंघां चोलचोलां शुकावृताम् 4.1.2.
सुकोमलमहाराष्ट्रीवाग्विलासमनोहराम्
सुदक्षदक्षिणामाशामाशानाथः प्रतस्थिवान्
न शेकुरग्रतो गंतुं ततोऽनूरुर्व्यजिज्ञपत्
अनूरुरुवाच भानो मानोन्नतो विन्ध्यो निद्ध्यय गगनं स्थितः
अन्रूरुवाक्यमाकर्ण्य सविता हृद्यचिन्तयत्
व्यास उवाच सूरः शूरोपि किं कुर्यात्प्रांतरे वर्त्मनिस्थितः
गृह्यत्राप्रत्यूष्टेः क्षणं नावतिष्ठति
योजनानां सहस्रे द्वे द्वे शते द्वे च योजने
गते बहुतिथेकाले प्राच्यौदीच्यां भृशार्दिताः