मंडपं तत्र कुर्वीत कदलीस्तंभमंडितम्
चित्रवस्त्रैः स्वलंकृत्य तत्र देवं प्रपूजयेत्
शृणुयादूर्जमाहात्म्यं नियमेन शुचिः पुमान् 2.4.36.
मुहूर्तं वाऽपि शृणुयात्कथां पुण्यां दिनेदिने
पुण्यमासेऽथवा पुण्यतिथौ संशृणुयादपि
पुराणज्ञः शुचिर्दक्षः शांतो विगतमत्सरः
व्यासासनं समारूढो यदा पौराणिको भवेत्
न दुर्जनसमाकीर्णे न शूद्रश्वापदावृते
श्रद्धाभक्तिसमायुक्ता नाऽन्यकार्येषु लालसा
अभक्ता ये कथां पुण्यां शृण्वंति मनुजाऽधमाः
पौराणिकं च मासांते पूजयेद्भक्तितत्परः
शृण्वंति च कथां भक्त्या न दरिद्रा न पापिनः
कथायां कीर्त्यमानायां ये गच्छंत्यन्यतो नराः 2.4.36.
उच्चासनसमारूढो न नरः प्रणतो भवेत्
कथायां कीर्त्यमानायां विघ्नं कुर्वंति ये नराः
ये श्रावयंति मनुजाः कथां पौराणिकीं शुभाम्
आसनार्थे प्रयच्छति पुराणज्ञस्य ये नराः
परिधानीयवस्त्राणि प्रयच्छंति च ये नराः
वाचके परितुष्टे तु तुष्टाः स्युः सर्वदेवताः तस्य पुण्यफलं पूर्णं भवत्येव न संशयः
यत्फलं सर्वयज्ञेषु सर्वदानेषु यत्फलम्
कलौ युगे विशेषेण पुराणश्रवणादृते पुराणश्रवणाद्विष्णोर्नास्ति संकीर्तनात्परम्
य एतदूर्जमाहात्म्यं शृणुयाच्छ्रावयेदपि
सर्वरोगापहं सर्वपापनाशकरं शुभम् ।। 2.4.36.
श्रुत्वा चैकपदे यो वै अगम्यागमने रतः
माहात्म्यमेतदाकर्ण्य पूजयेद्यस्तु पाठकम्
धर्मशास्त्रं पुराणं च वेदविद्यादिकं च यत् पुराणविद्यादातारो ह्यनंतफलभोगिनः
इदं यः पठते भक्त्या श्रुत्वा चैवाऽवधारयेत्
न कस्याऽपीदमाख्येयं श्रद्धाहीनाय दुर्मतेः
अपूजयित्वा गुरुमग्रबुद्ध्या धर्मप्रवक्तारमनन्यबुद्धिः
तस्मात्संपूजयेद्भक्त्या गुरुं तत्त्वावबोधकम्