न स्नानादि करोत्यद्धा स याति नरकं ध्रुवम्
सर्वान्पितॄन्समुद्धृत्य स याति परमं पदम्
दिनेदिनेऽश्वमेधानां फलमेति न संशयः 2.4.36.
न पापैर्लिप्यते क्वाऽपि पद्मपत्रमिवांऽभसा
तस्य पुण्यफलं वक्तुं कः शक्तो दिवि वा भुवि
कैश्चित्प्राप्तो ब्रह्मभावो दिनत्रयनिषेवणात्
अथ वा कार्त्तिके मासि दिनत्रयनिषेवणात्
न तस्य पुनरावृत्तिः कल्पकोटिशतैरपि
पुण्यं तत्राऽपि वैशेष्यं राकायां वर्ततेऽनघ
समाप्य सर्वकर्माणि विष्णुपूजां समाचरेत्
मंडपं तत्र कुर्वीत कदलीस्तंभमंडितम्
चित्रवस्त्रैः स्वलंकृत्य तत्र देवं प्रपूजयेत्
शृणुयादूर्जमाहात्म्यं नियमेन शुचिः पुमान् 2.4.36.
मुहूर्तं वाऽपि शृणुयात्कथां पुण्यां दिनेदिने
पुण्यमासेऽथवा पुण्यतिथौ संशृणुयादपि
पुराणज्ञः शुचिर्दक्षः शांतो विगतमत्सरः
व्यासासनं समारूढो यदा पौराणिको भवेत्
न दुर्जनसमाकीर्णे न शूद्रश्वापदावृते
श्रद्धाभक्तिसमायुक्ता नाऽन्यकार्येषु लालसा
अभक्ता ये कथां पुण्यां शृण्वंति मनुजाऽधमाः
पौराणिकं च मासांते पूजयेद्भक्तितत्परः
शृण्वंति च कथां भक्त्या न दरिद्रा न पापिनः
कथायां कीर्त्यमानायां ये गच्छंत्यन्यतो नराः 2.4.36.
उच्चासनसमारूढो न नरः प्रणतो भवेत्
कथायां कीर्त्यमानायां विघ्नं कुर्वंति ये नराः
ये श्रावयंति मनुजाः कथां पौराणिकीं शुभाम्
आसनार्थे प्रयच्छति पुराणज्ञस्य ये नराः
परिधानीयवस्त्राणि प्रयच्छंति च ये नराः
वाचके परितुष्टे तु तुष्टाः स्युः सर्वदेवताः तस्य पुण्यफलं पूर्णं भवत्येव न संशयः
यत्फलं सर्वयज्ञेषु सर्वदानेषु यत्फलम्